________________
रागढष रूपी तेल के नष्ट हो जाने से कर्म-दीपक पुझ जाता है।
श्री वादिराज प्रणीतं
* एकीभाव स्तोत्रम् एकीभावं गत इवमया यः स्वयं कर्मबन्धो, घोरं दुःख भवभवगतो दुनिवारःकरोति । तस्याप्यस्य त्वयिजिनवरे भक्तिरुन्मुक्तये चे,ज्जेतुं शक्यो भवति न तयाकोऽपरस्तापहेतुः ।। ज्योतीरूपं दुरितनिवह ध्वान्तविध्वंसहेतुं, त्वामेवाजिनवर चिरं तत्त्वविद्याभियुक्ताः। घेतोवासे भवसि च मम स्फारमुद्भासमान, स्तस्मिन्नंहः कथमिवतमोवस्तुतो वस्तुमोष्टे ।। आनन्दाश्रुस्न पित वदनं गद्गदं चाभिजल्पन्,यश्चायेत त्वयिदृढमनाःस्तोत्रमन्त्रैर्भवन्तम् । तस्याभ्यस्तादपि च सुचिरंदेहवल्मीकमध्या,न्निष्कास्यतेविविधविषमव्याधयःकाद्रवेयाः ।। प्रागेवेह त्रिदिवभवनादेष्यता भव्यपुण्यात्, पृथ्वीचक्र कनकमयतां देव निन्ये त्वयेदम् । ध्यानद्वारं मम रुचिकरं स्वान्तगेहं प्रविष्ट, स्तत्कि चित्रं जिनवपुरिदं यत्सुवर्णीकरोषि ।। लोकस्यैकस्त्वमसि भगवन्निनिमित्तेन, बन्धुस्त्वय्येवासौ सकलविषया शक्तिरप्रत्यनीका । भक्तिस्फीतांचिरमधिवसन्मामिकाँचित्तशय्यां,मय्युत्पन्नं कथमिव ततः क्लेशयूथंसहेथाः ।। जन्माटव्यां कथमपिमया देव दीर्घ भ्रमित्वा,प्राप्तवेयं तव नय कथा स्फारपीयूषवापी । तस्या मध्ये हिमकर हिमव्यूहशीते नितान्तं निर्मग्नं मां न जहित कथं दुःखदावोपतापाः ।। पादन्यासादपि च पुनतो यात्रया ते त्रिलोकी,हेमाभासो भवतिसुरभिःश्रीनिवासश्च पद्मः । सर्वा गेण स्पृशति भगवंस्त्वय्यशेषं मनो मे, श्रेयः किं तत्स्वयमहरहर्यन्न मामभ्युपैति ।। पश्यन्तं त्वद्वचनममृतं भक्तिपात्या पिबन्तं, कर्मारण्यात्पुरुषमसमानन्दधाम प्रविष्टम् । त्वां दुरस्मरमदहरं त्वत्प्रसादैकभूमि, क्रूराकाराः कथमिव रुजाकण्टका निलुंठन्ति ।। पाषाणात्मा तदितरसमः केवलं रत्नमूर्ति, निस्तम्भो भवति च परस्तादृशो रत्नवर्गः। दृष्टिप्राप्तो हरति स कथं मानरोगनराणां, प्रत्यासत्तिर्यदि न भवतस्तस्य तच्छक्तिहेतुः ।६। हृधःप्राप्तो मरदपि भवन्मूर्ति शलोपवाही, सद्यः पुंसां निरवधिरुजाधूलिबन्धं धुनोति । ध्यानाहूतो हृदयकमलं यस्य तुत्वं प्रविष्ट, स्तस्याशक्यः क इह भुवने देवलोकोपकारः ॥१०॥ जानासि त्वं मम भवभवेयच्चयाक्च दुखजातं यस्यस्मरणमपि मे शस्त्रवन्निपिनष्टि । त्वं सर्वेशःसकृपइति च त्वामुपेतोऽस्मि भक्तया, यत्कर्तव्यंतदिहविषये देव एवप्रमाणम् ॥११॥ प्रापदैवं तव नुतिपदैर्जीवकेनोपदिष्टः, पापाचारीमरणसमये सारमेयोऽपि सौख्यम् । कः संदेहोयदुपलभते वासव श्रीप्रभुत्वं,जल्पजाप्यमणि भिरमलस्त्वन्नमस्कार चक्रम् ॥१२॥ शुद्ध ज्ञानेशुचिनिचरितेसत्यपित्वय्यनोचा,भक्ति!चेदन वधिसुखावञ्चिकाकुञ्चिकेयम् । शक्योद्धघाटभवति हि कथं मुक्तिकामस्य पुंसो, मुक्तिद्वारं परिदृढ़महामोहमुद्राकवाटम् ॥१३॥ [४२]