________________
अन्तर बाह्य परिग्रह का त्याग, हिसा और आत्म निमग्नता आत्म कल्याण का प्रशस्त पथ है।
धर्मोपदेश समये सविधानुभावा, दास्तां जनो भवति ते तरुरप्शोकः । अभ्युद्गते दिनपतौ समहीरहोऽपि, किं वा विबोधमुपयाति न जीवलोकः ॥१६॥ चित्रं विभो कथमवाङ मुखवृन्तमेव, विष्वक्प तत्यविरला सुरपुष्पवृष्टिः । त्वद्गोचरे सुमनसां यदि वा मुनीश! गच्छन्ति नूनमध एव हि बन्धनानि ॥२०॥ स्थाने गभीरहृदयोदधिसम्भवायाः, पीयूषतां तव गिरः समुदीरयन्ति । पीत्वा यतः परमसंमदसंगभाजो, भव्या ब्रजन्ति तरसाप्य जरामरत्वम् ॥२१॥ स्वामिन्सुदूरमवनम्य समुत्पतन्तो, मन्ये वदन्ति शुचयः सुरचामरौघाः । येऽस्मै नतिं विदधते मुनिपुंगवाय, ते नूनमूर्ध्वगतयः खलु शुद्धभावाः ॥२२॥ श्यामं गभीरगिरिमुज्ज्वलहेमरत्न, सिंहासनस्थमिह भव्यशिखण्डिनस्त्वाम् । आलोकयंति रभसेन नदंतमुच्चै, श्चामीकराद्रि शिरसीव नवाम्बुवाहम् ॥२३॥ उद्गच्छता तवशितिधु तिमण्डलेन, लुप्तच्छ दच्छविरशोक तरुर्बभूव । सांनिध्यतोऽपि यदिवातव वीतराग! नीरागतां ब्रजति को न सचेतनोऽिप ॥२४॥ भो भोः प्रमादमवधूय भजध्वमेन, मागत्य निर्वृतपुरों प्रति सार्थवाहम् । एतन्निवेदयति देव जगत्त्रयाय, मन्ये न दन्नभिनभः सुरदुन्दुभिस्ते ॥२५॥ उयोतितेषु भवता भुवनेषु नाथ, तारान्वितो विधुरयं विहतान्धकारः । मुक्ताकलाप कलितोरुसितातपत्र, व्याजास्त्रिधा धृत तनुर्धवमभ्युपेतः ॥२६॥ स्वेन प्रपूरित जगत्त्रय पिण्डितेन, कान्ति प्रताप यशसामिव सञ्चयेन । माणिक्य हेम रजतप्रविनिर्मितेन, सालत्रयेण भगवन्नभितो विभासि ॥२७॥ दिव्यजो जिन नमस्त्रिदशाधिपाना, मुत्सृज्य रत्नरचितानपि मौलिबंधान् । पादौ श्रयंति भवतायदि वापरत्र, त्वत्संगमे सुमनसो नरमंतएव ॥२८॥ त्वं नाथ जन्मजलविपराङ मुखोऽिप, यत्तारयस्यसुमतो निज पृष्टलग्नान् । युक्त हि पार्थिवनिपस्य सतस्तवैव, चित्रं विभो यदसि कर्मविपाकशून्यः ॥२६॥ विश्वेश्वरोऽपि जनपालक दुर्गतस्त्वं, कि वाक्षर प्रकृतिरप्यलिपिस्त्वमीश । 'अज्ञानवत्यपि सदैव कथंचिदेव, ज्ञान-त्वयि स्फुरति विश्व विकास हेतु ॥३०॥ प्राग्भारसम्भृतनभांसिर जांसि रोषा, दुत्थापितानि कमठेन शठेन यानि ।
छायापितैस्तव न नाथ हता हताशो, ग्रस्तस्त्वमी भिरयमेव परं दुरात्मा ॥३१॥ [४०]