________________
भोग परिग्रह हिंसा तथा विषयासक्ति, विपसि का मार्ग है।
ये योगिनामपि न यान्ति गुणास्तवेश, वक्तुं कथं भवति तेषु ममावकाशः । जाता तदेव मसमीक्षित कारितेयं, जल्पन्ति वा निजगिरा ननुपक्षिणोऽपि ॥६॥ आस्तामचिन्त्य महिमा जिन संस्तवस्ते, नामापि पाति भवतो भवतो जगन्ति । तीवात पोपहत पान्थ जनान्निदाघे, प्रोणाति पद्म सरसः सरसोऽनिलोपि ॥७॥ हृतिनि त्वयि विभो शिथिली भवन्ति, जन्तोः क्षणेन निबिडा अपि कर्मबन्धाः । सद्यो भुजंग ममया इव मध्य भाग, मभ्यागते वनशिखण्डिनि चन्दनस्य ॥८॥ मुच्यन्त एव मनुजाः सहसा जिनेन्द्र, रौद्र रुपद्रव शर्तस्त्वयि वीक्षितेपि । गोस्वामिनि स्फुरित तेजसि दृष्टमात्रे, चौरैरिवाशु पशवः प्रपलाय मानः ॥६॥ त्वं तास्को जिन कथं भविनांत एव, त्वामुद्र हन्ति हृदयेन यदुत्तरन्तः । यद्वा दृतिस्तरति यज्जलमेष नून, मन्तर्गतस्य मरुतः स किलानुभावः ॥१०॥ यस्मिन्हर प्रभृतयोपि हतप्रभावाः, सोपि त्वयारति पतिः क्षपितः क्षणेन । विध्यापिता हुतभुजः पयसाथयेन, पोतं न किं तदपि दुर्धर वाडवेन ॥११॥ स्वामिन्ननल्पगरि माणमपि प्रपन्ना, स्त्वां जन्तवः कथमहो हृदये दधानाः । जन्मोदधि लघु तरन्त्यति लाघवेन, चिन्त्यो न हन्तमहतां यदि वा प्रभावः ॥१२॥ क्रोधस्त्वया यदि विभो प्रथमं निरस्तो, ध्वस्तस्तदा वदकथं किलकर्म चौराः । प्लोषत्यमुत्र यदिवा शिशिरापिलोके, नीलद्र माणि विपिनानिन कि हिमानी ॥१३॥ त्वां योगिनो जिन सदा परमात्मरूप, मन्वेषयन्ति हृदयाम्बुज कोषदेशे । पूतस्य निर्मल रुचेर्यदि वाकिमन्य, दक्षस्य सम्भव पदं ननु कणिकायाः ॥१४॥ ध्यानाज्जिनेश भवतो भविनः क्षणेन, देहं विवाह परमात्मदशां ब्रजन्ति । तोबानलादुपलभाव मपास्य लोके, चामोकरत्वम चिरादिव धातुभेदाः ॥१५॥ अन्तः सदैव जिन यस्य विभाव्यसे त्वं, भव्यैः कथं तदपि नाशयसे शरीरम् । एतत्स्वरूपमथ मध्य विवतिनो हि, यद्विप्रहं प्रशमयन्ति महानुभावाः ॥१६॥ आत्मा मनीषि भिरयं त्वद भेद बुध्द्या, ध्यातो जिनेन्द्र भवतीह भवत्प्रभावः । पानीय मध्य मृत मित्यनु चिन्त्यमानं, कि नाम नो विषविकारमपाकरोति ॥१७॥ त्वामेव वीततमसं परवादिनोऽपि, नूनं विभोहरिहरादिधिया प्रपन्नाः। कि काचकामलि भिरीश सितोऽपिशंखो, नो गृह्यते विविधवर्ण विपर्ययेण ॥१८॥
[३६]