________________
मनोवृत्ति के आधीन ही वध अबंध व्यवस्था है।
कि शर्वरीषु शशिनाह्नि विवस्व तावा, युष्मन्मुखेन्दु दलितेषु तमःसु नाथ।। निष्पन्न शालि वन शालिनि जीव लोके, कार्य कियज्जलधरैर्जल भारनम् ॥१६॥ ज्ञानं यथा त्वयि विभूति कृतावकाशं, नैवं तथा हरि हरादिषु नायकेषु । तेजो महामणिषु याति यथा महत्त्वं, नैवं तु काच शकले किरणा कुलेऽपि ॥२०॥ मन्ये वरं हरि हरादय एव दृष्टा, दृष्टेषु येषु हृदयं त्वयि तोषमेति । कि वीक्षितेन भवता भुवि येन नान्यः, कश्चिन्मनो हरति नाथ भवान्तरेऽपि ॥२१॥ स्त्रीणां शतानि शतशो जनयन्ति पुत्रान्, नान्या सुतं त्वदुपमं जननी प्रसूता। सर्वा दिशो दधति भानि सहस्त्र रश्मि, प्राच्येव दिग्जनयति स्फुर दंशु जालम् ॥२२॥ त्वामा मनन्ति मुनयः परमं पुमांस, मादित्य वर्ण ममलं तमसः पुरस्तात् । त्वामेव सम्य गुपलभ्य जयन्ति मृत्यु, नान्यःशिवःशिव पदस्य मुनीन्द्र पन्थाः ॥२३॥ त्वा मव्ययं विभु तचिन्त्य मसंख्य माद्य, ब्रह्माण मीश्वर मनन्त मनंग केतुम् । योगीश्वरं विदित योग मनेक मेकं, ज्ञान स्वरूप ममलं प्रवदन्ति सन्तः ।.२४॥ बुद्धस्त्वमेव विबुधाचित बुद्धि बोधा, त्वं शंकरोऽसि भुवन त्रय शंकरत्वात् । धातासि धीर शिव मार्ग विधेर्विधानात्, व्यक्त तवमेव भगवन् पुरुषोत्तमोऽसि ।।२।। तुभ्यं नम स्त्रिभुवनाति हराय नाथ, तुभ्यं नमः क्षितितलामल भूषणाय । तुभ्यं नमस्त्रिजगतः परमेश्वराय, तुभ्यं नमो जिन भवोदघि शोषणाय ॥२६॥ को विस्मयोऽत्र यदि नाम गुणरशेष, स्त्वं संश्रितो निरवकाश तया मुनीश । दोष रुपात्त विविधाश्रयजात गर्वैः, स्वप्नान्तरेऽपि न कदाचिद पीक्षि तोसि ॥२७॥ उच्चर शोक तरु संश्रित मुन्मयूख, माभाति रूप ममलं भवतो नितान्तम्। स्पष्टोल्लसत् किरणमस्त तमोवितानं, विम्बं रवेरिव पयोधर पार्श्ववति ॥२८॥ सिंहासने मणि मयूख शिखा विचित्रे, विभाजते तव वपुः कनकावदातम् । विम्बं विद्विल सदंशु लता वितानं, तुंगोदयाद्रि सिरसीव सहा रश्मे-॥२६॥ कुन्दावदात चल चामर चारु शोभं, विभाजते तव वपुः कलधौत कान्तम्'।' उद्यच्छशांक शुचि निर्झर वारि धार, मुच्चस्तटं सुर गिरेरिव शात कौम्भम् ॥३०॥ छत्र त्रयं तव विभाति शशांक कान्त, मुच्चैःस्थितं स्थगित भानु कर प्रतापम्। .. मुक्ता फल प्रकर जाल विवृद्ध शोभं, प्रख्यापयतः त्रिजगत परमेश्वरत्वम् ॥३१॥ [३६]