________________
यश रूपी समुद्र को बढ़ाने के लिये आर्जव भाव चंद्रतुल्प है।
नमः परमविद्याय नमः परमतच्छिदे । नमः परमतत्त्वाय नमस्ते परमात्मने ॥२१॥ नमः परमरूपाय नमः परमतेजसे ।
नमः परममार्गाय नमस्ते परमेष्टिने ॥२२॥ परद्धिजुषे धाम्ने परमज्योतिषे नमः। नमः पारतमः प्राप्तधाम्ने ते परमात्मने ॥२३॥ नमः क्षीणकलंकाय क्षीणबंध नमोस्तुते । नमस्ते क्षीणमोहाय क्षीणदोषाय ते नमः ॥२४॥
नमः सुगतये तुभ्यं शोभनांगतमीयुषे । नमस्तेतीन्द्रियज्ञान सुखायानिद्रियात्मने ॥२५॥ कायबंधननिर्मोक्षाद कायाय नमोस्तु ते।
नमस्तुभ्यमयोगाय योगिनामपि योगिने ॥२६॥ अवेदाय नमस्तुभ्यमकषायायते नमः। नमः परम योगीन्द्रवंदिताघ्रि द्वयायते ॥२७॥ नमः परमविज्ञान नमः परम संयम । नमः परमहग्नुप्त परमार्थाय तेनमः ॥२८॥
नमस्तुभ्यमलेश्याय शुल्क लेशांशकस्पृशे । नमो भव्ये तरावस्था व्यतीताय विमोक्षणे ॥२६॥ संज्ञा सजिद्वयावस्था व्यतिरिक्तामलात्मने ।
नमस्ते वीतसंज्ञाय नमः ज्ञायक दृष्टये ॥३०॥ अनाहाराय तृप्ताय नमः परम भाजुषे । व्यतीता शेषदोषाय भवाव पारमीयुषे ॥३१॥ अजराय नमस्तुभ्यं नमस्ते ऽतीत जन्मने । अमृत्यवे नमस्तुभ्यंमचलायाक्षरात्मने ॥३२॥
अलमास्तांगुण स्तोत्रमनन्तास्ताव कागुणाः । त्वन्नामस्मृतिमात्रेण परमंशं प्रशास्महे ॥३३॥
इति प्रस्तावना
[२३]