________________
मानरूपी पर्वत को भेदने के लिये भादव भाव वन के समान है।
त्रिकालविषयाशेषतत्स्वभेदात् त्रिधोच्छिदं । केवलाख्यं दधच्चक्षुस्त्रिनेत्रोसि त्वमीशिता ॥७॥ स्वामंध कांतकं प्राहुर्मोहाँध सुर मई नात् ।
अर्द्धन्ते नारयो यस्मादर्धनारीश्वरोस्यत ॥८॥ शिवः शिवपदाध्यासाद् दुरितारिहरोहरः। शंकरः कृतशं लोके संभवस्त्व भवन्मुखे ॥६॥ वृषभोसि जगज्ज्येष्टः गुरुर्गुरु गुणोदयः । नाभेयो नाभिसंभूतेरिक्ष्वाकुःकुलनंदनः ॥१०॥
त्वमेकः पुरुषस्कंधस्त्वं लोकस्य लोचने । त्वं विधाबुधसन्मार्गस्त्रिज्ञास्त्रिज्ञान धारकः ॥११॥ चतुःशरण मांगल्यमूर्तिस्त्वं चतुरहः सुधीः।
पंचब्रह्ममयो देवः पावनस्त्वं पुनीह माम् ॥१२॥ स्वर्गाव तारणे तुभ्यं सद्योजातात्मने नमः । जन्माभिषेकवामाय वामदेव नमोस्तुते ॥१३॥ सुनिःक्रांताय घोराय परं प्रशमसीयुषे । केवलज्ञानसंसिद्ध विषाणाय नमोस्तुते ॥१४॥
पुरु स्तुत् पुरुष स्तुभ्यं विमुक्तपदभागिने । नमस्तत्पुरुषावस्थां भावनानघ विनते ॥१५॥ ज्ञानावरण निर्हासान्नमस्ते नंतचक्षुषे ।
दर्शनावरणोच्छेदान्नमस्ते विश्वशिने ॥१६॥ नमो दर्शनमोहम्नेज्ञायिकामलदृष्टये । नमश्चारित्रमोहघ्ने विरागाय महौजसे ॥१७॥ नमस्तेऽनंतवीर्याय नमोनंतसुखाय ते। नमस्तेअनंतलोकाय लोकालोकविलोकिने ॥१८॥
नमस्तेऽनंतदानाय नमस्तेऽनंतलब्धये । नमस्तेऽनंतभोगाय नमो ऽनंतोय भोगिने ॥१६॥ नमः .परम योगाय नमस्तुभ्यमयोनये । नमः परमपूताय नमस्ते परमर्षये ॥२०॥
[२२]