________________
हम निज शक्ति के विकास विना वर दर भटकते फिरते हैं।
माया नास्तिजटा कपाल मुकुटं चन्द्रोन मूर्धावली। खट्वांगं न च वासुकिर्न च धनुः शूलं न चोमुखम् ।। कामो यस्य न कामिनी न च वृषो गोतं न नृत्यं पुनः ।
सोऽस्मान्पातु निरंजनो जिनपतिः सर्वत्र सूक्ष्मः शिवः ॥१०॥ नो ब्रह्मांकित भूतलं न च हरेः शम्भोर्न मुद्रांकितं । नो चन्द्रापर्क करांकितं सुरपतेर्वजाकितं नैव च ॥ षड्वक्त्रांकित बौद्ध देव हुत भुग्यक्षोर गैर्नाकितं । नग्नं पश्यत वादिनो जगदिदं जैनेन्द्र मुद्रांकितं ॥११॥
मौज्जीदंड कमण्डलु प्रभुतयो नो लाञ्छन ब्रह्मणो। रुद्रस्यापि जटा कपाल मुकुटं कोपीन खट्वांग ना ।। विष्णोश्चक्र गदादि शंखमतुलं बुद्धस्य रक्ताम्बरं ।
नग्नं पश्यत वादिनो जगदिदं जैनेन्द्र मुद्रांकितम् ॥१२॥ नाहंकार वशी कृतेन मनसा ना षिणा केवलं । नैरात्म्यं प्रतिपद्य नश्यति जने कारुण्य बुद्ध्या मया ॥ राज्ञः श्री हिमशीतलस्य सदसि प्रायो विदग्धात्मनो। बौद्धौधान्सकलान् विजित्य सघटः पादेन विस्फालितः ॥१३॥
खट्वांगंनैव हस्ते न च हृदिरचिता लम्बते मुण्डमाला । भस्मॉग नैव शूलं न च गिरिदुहिता नैव हस्ते कपालं ।। चन्द्रार्द्ध नैव मूर्धन्यपि वृषगमनं नव कण्ठे फणीन्द्रः ।
तं बन्दे त्यक्त दोषं भवभयमथनं चेश्वरं देवदेवं ॥१४॥ कि वाद्यो भगवानमेयमहिमा देवोऽकलंकः कलौ । काले योजनता सुधर्म निहितो देवोऽकलंको जिनः ॥ यस्य स्फार विवेक मुद्रलहरी जाले प्रमेयाकुला। निर्मग्ना तनुतेतरां भगवती ताराशिरः कम्पनम् ॥१५॥
सा तारा खलु देवता भगवती मन्या पिमन्यामहे । षण्मासावधि जाड्य सांख्य भगवद्भट्टाकलंक प्रभोः ।। वाकल्लोल परम्पराभिरमते नूनं मनोमज्जन । व्यापार सहतेस्म विस्मित मतिः सन्ताडिते तस्ततः ॥१६॥ इति श्री अकलकस्तोत्र सम्पूर्णम्
[१६]