________________
भौतिक उन्नति में नैतिक पतन होता है, क्योंकि भौतिक उन्नति अतृप्ति,
वार्धाराद्यर्हणा ते समगति सुखदातुष्टि पुष्टयादिकों, दिव्या वागागमोत्या श्रुति सरणि गतानंत मिथ्यात्वहो । रागद्वेषादि मुक्तो मुनिरिह विदितः शुद्धबोधाशयालुः, जन्मां होवारणात्कंस्तवमिमम सृजद्वादिराजो दयालुः ॥६॥ ___- इति श्री वादिराज विरचितम् अध्यात्माष्टक स्तोत्रम्
. श्री महावीराष्टक स्तोत्र ...
छंद शिखरिणि यदीये चैतन्ये मुकुर इव भावाश्चिदचितः, समभांति ध्रौव्यव्ययजनिलसंतोतरहिताः । जगत्साक्षी मार्गप्रकटनपरो भानुरिवयो महावीरस्वामी नयनपथगामो भवतु मे (नः) ॥१॥
अताम्नं यच्चक्षुः कमल युगलं स्पंदरहितं, जनान्कोपापायं प्रकटयति वाभ्यंतरमपि। स्फुटमूर्तिर्यस्य प्रशमितमयी वातिविमला,
महावीरस्वामी नयनपथगामी भवतु मे (नः) ॥२॥ नमन्नाकेन्द्राली मुकुटमणिभाजालजटिलं, लसत्पादाभोजद्वयमिह यदीयं तनुभृतां । भवज्ज्वालाशांत्यै प्रभवति जलंबा स्मृतमपि, महावीरस्वामी नयनपथगामीभवतु मे (नः) ॥३॥
यदाभावेन प्रमुदितमना दर्दुर इह, क्षणादासीत्स्वर्गी गुणगणसमृद्धः सुखनिधिः । लभंते सद्भक्ताः शिवसुखसमाजं किमुदता ?
महावीरस्वामी नयनपथगामी भवतुमे (नः) ॥४॥ कनत्स्वर्णाभासोऽप्य पगततनुर्ज्ञान निवहो, विचित्रात्माप्येको नृपतिवरसिद्धार्थतनयः । अजन्मापि श्रीमान् विगतभवरागोड़, तगतिर, महावीरस्वामी नयनपथगामी भवतु मे (नः) ॥५॥ [१४]