________________
सर:]
द्रव्यादिलक्षणानि
७
सर्वार्थसिद्धिः ईश्वरादावपि मूर्तसंयोगा *'आगन्तुकास्सन्ति ।
आनन्ददायिनी __ ननु ज्ञाततावादिमते पुनरप्यतिव्याप्तिः ; एकदेशिभिः शब्दादावपि संख्याङ्गीकाराच्छक्तयङ्गीकाराच्चातिव्याप्तिः। न च गुणादौ शक्तयभावः; कारणत्वानुरोधेन तदावश्यकत्वादिति चेदुच्यते-अगन्तुकधर्मवत्त्वमित्यर्थः । ज्ञाततातिरिक्तधर्म्यनन्तरकालीनोत्पत्तिकधर्मत्वमागन्तुकत्वं विवक्षितं । यद्यपि द्वित्वरूपा संख्या तादृशी ; तथाऽपि सा सिद्धान्ते नास्त्येव ! एकत्वं तु धर्मिणा सहैवोत्पद्यते इति धर्म्यनन्तरकालीनोत्पत्तिर्नास्त्येव । तथा शक्तिरपि सहजा ; आधेया तु गुणे न; मानाभावात् । सहजाऽपि प्रतिबन्धे गुणादौ न विद्यते; तदपगमे धर्म्यनन्तरमुत्पद्यते इति तथेति शङ्का गुणस्यैवापगमोत्पत्तिभ्यां परिहार्या । यद्यपि यादृशादेव करतलानलसंयोगाद्दाहः तादृशादेव मणिसमवधाने न दाह इति शक्तेरेवोत्पत्त्यपगमौ; तथापि प्रतिबन्धकाभावधर्म्यतिरिक्त विशेषकारणतावच्छेदकावच्छिन्नकारणताप्रतियोगिककार्यतावच्छेदकावच्छिन्नधर्म्यसमानकालीनस्ववर्तमानव्यवहारविषयताप्रयोजकधर्मानवच्छिनधर्मत्वं विवक्षितमिति न दोषः । प्रतिबन्धकाभावश्च धर्मी च प्रतिबन्धकाभावर्मिणौ ताभ्यामतिरिक्त वस्तुनि विशेषकारणतावच्छेदकावच्छिन्ना कारणता तत्प्रतियोगिककार्यतावच्छेदकावच्छिन्न इति धर्मविशेषणं । धर्म्यसमानेत्यारभ्यावच्छिन्नेत्यन्तमपि धर्मविशेषणं । आयेन शक्तिमादायातिप्रसङ्गनिरासः ; धमर्यनन्तरकालोत्पन्नशक्तेः प्रतिबन्धकाभावधर्मिभ्यां विशेषकारणाभ्यामुत्पन्नत्वात् । द्वितीयेन ज्ञाततामादायातिप्रसङ्ग
भावप्रकाशः . * आगन्तुकास्सन्तीति-धर्मधर्मिणोरत्यन्तभेदस्य साधयिष्यमाण
2*