________________
18
सव्याख्य सर्वार्थसिद्धिसाहेततत्वमुक्ताकलापे
[जद्रव्य
तत्वमुक्ताकलापः मव्यक्तकालौ। अन्त्यं प्रत्यक्पराक्च प्रथममुभयथा तत्र जीवेशभेदानित्या भूतिर्मतिश्चत्यपरमपि जडामादिमां केचिदाहुः ॥ ६ ॥ तत्र द्रव्यं दशावत्
सर्वार्थसिद्धिः अव्यक्तशब्देन व्यक्तमपि लक्ष्यते । तदनन्यद्रव्यत्वज्ञापनार्थं । प्रत्यक-स्वस्मै भासमानं । पराक्-परस्मा एव भासमानं। भूतिविभाते-स्वातिशयाधानार्थ नियन्तव्यद्रव्यं । निया भूतिरिति नित्यमाचुर्यतश्शुद्धसत्वमुपलक्ष्यते । इह आदिमां-नित्यभूति कचिज्जडामाहुरिति मयथ्यमतभेदोक्तिः ॥ ६ ॥
इति द्रव्याद्रव्यविभाग:.
प्रस्तुतस्य द्रव्यस्य तदवान्तरभेदानां च लक्षणमाह-तत्रेनि तत्र-द्रव्याद्रव्ययोर्मध्ये द्रव्यं दशावत् *'विकारधर्मवदित्यर्थः ।
आनन्ददायिनी ननु द्रव्यस्यावस्थायोगित्वकथनमयुक्तं द्रव्यादिनिरूपणस्यैव कर्तव्यत्वादित्यभिप्रायेणाह-प्रस्तुतस्येति- । दशाशब्दस्यावयवार्थत्वे नित्येष्वव्याप्तिरित्यत्राह-विकारधर्मवदित्यर्थ इति- धर्मवत्त्वं लक्षणमित्युक्ते अभावरूपधर्मवति गुणेऽतिव्याप्तिः । भावरूपधर्मवत्त्वमित्युक्ते रूपत्वादिजातिमति पुनरप्यतिव्याप्तिः । अत उक्तं विकारधर्मवत्त्वमिति ।
भावप्रकाशः ** विकारधर्मवदिति-अपृथक्सिद्धिसंबन्धेन आगन्तुकधर्मवदित्यर्थः।