SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ सरः] द्रव्यादिविभाग: 17 तत्वमुक्ताकलापः माहुः*' द्रव्यं वेधा विभक्तं जडमजडमिति प्राच्य सर्वार्थसिद्धिः नीलपीतादिवत् कोट्यन्तरावकाशः। * द्रव्यत्वात्यन्ताभाववत्वरूपेण तदन्यत्वस्य विवक्षितत्वात् । द्रव्यलक्षणं वक्ष्यति । जडमिह स्वगोचरज्ञानत एव प्रकाशमानं । आनन्ददायिनी ननु द्रव्यान्यत्वं द्रव्यस्याप्यस्ति घटस्य पटादन्यत्वात् । तथाच तदन्यरूपेण विभागे नीलपीतादिवत् कोट्यन्तरमस्त्येवेत्यत आह-द्रव्यत्वात्यन्ताभाववत्त्वरूपेणेति । स्वगोचरं स्वभिन्नमेव ; भेदनिबन्धनत्वाद्विषयविषयिभावस्येति भावः ॥ ६॥ इति द्रव्याद्रव्यविभाग:. भावप्रकाशः * द्रव्यं द्वेधेति-अथवा द्रव्यं द्विविधं आत्मानात्मभेदात् । त्रेधा वा भोक्तभोग्यनियन्तृश्रुत्यनुसारात् । षोढा वा--त्रिगुणकालजविश्वरशुद्धसत्वमतिभेदात् । एकं वा इतरविशिष्टं प्राधान्यतः परं ब्रह्म ; मुमुक्षुभिः प्रकर्षण मेयत्वश्रुतेः इति न्यायपरिशुद्धिः । अशेषचिदचित्प्रकार ब्रह्मैकमेव तत्वं । तदन्तर्गतं च सर्व द्रव्याद्रव्यात्मना विभक्तं इति न्यायसिद्धाञ्जनम् । * द्रव्यत्वात्यन्ताभाववत्त्वरूपेणेति-एतेन प्रतियोगिमत्ताविरोधित्वं सूचितम् । 'वस्त्वन्तरगतासाधारणविरोधिधर्म एव समानाधिकरणव्यघिकरणनिषेधभेदेनान्योन्याभावोऽत्यन्ताभावश्च' इति तात्पर्यचन्द्रिकासूक्तिरत्रानुसन्धेया ॥ SARVATHA. -
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy