SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ 16 सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे जडद्रव्य सर्वार्थसिद्धिः *प्रमितम् । तथात्वं च सर्वसाधारणम् । तदपि हि सामान्यतः प्रमितम् । अन्ततस्स्वपरनिर्वाहान्नानवस्था । इदं च साधर्योक्तिमात्रम् ; व्यवच्छेद्याभावेन लक्षणत्वासिद्धेरित्येके । निर्दिष्टव्यापित्वे सति तदन्यवृत्तिरहितत्वात् लक्षणमपि स्यादित्यन्ये । बाह्यकुदृष्टिव्यावृत्तास्तद्विदः । अत्र तत्तदन्यरूपेण विभागेषु न आनन्ददायिनी तदपीति-- प्रमितत्वमित्यर्थः । ननु प्रमितत्वेऽपि प्रमितत्वे अनवस्थेत्यत्राह-- अन्तत इति । ननु प्रमितत्वस्य लक्षणत्वं नोपपद्यते इतराप्रसिद्धावितरभेदासाधकत्वादित्यत्राह--इदं चेति । यावर्तकत्वाभावेऽपि व्यवहारप्रयोजकत्वाभिप्रायेणाह-निर्दिष्टेति---निर्दिष्टं-लक्ष्यम् । लक्ष्यनिष्ठात्यन्ताभावाप्रतियोगित्वं तद्व्यापित्वम् । तदन्यवृत्तित्वनिषेधश्च निर्दिष्टत्वरूपलक्ष्यतावच्छेदकव्याप्यत्वम् । तेन तदन्यस्याप्रसिद्धया तत्प्रयुक्तदोषानवकाशः । केचित्तु ---निर्दिष्टं --म्वलक्ष्यम् । स्वलक्ष्यव्यापकत्वे सति तदन्यनिष्ठत्वं तत्तदतिव्यापकेषु प्रसिद्ध प्रकृते निषिध्यते ; यथा स्वोपादानगोचरजन्यकृतिजन्यान्यत्वमित्यत्रेत्याहुः ।। भावप्रकाशः * 1 प्रमितमिति -~- द्रव्याद्रव्ययोरेकजातीयप्रमाविषयत्वोक्तया निर्विकल्पकमेकमेव प्रमा न तु विकल्पः । निर्विकल्पके धर्मी भासते सविकल्पके च धर्माः । अतो धर्मिमात्रमेव परमार्थसदिति वैभाषिककुसृते वकाश इति सूचितम् । विवेचयिष्यते चेदमुपरिष्टात् । एतन्नचायेन च न ब्रह्मगुणापलापइति स्पष्टं निर्विकल्पकवादे ॥ ___ * तदन्यवृत्तिरहितत्वादिति--सिद्धान्ते भावान्तराभावपक्षाङ्गीकारेण तदन्यस्याप्रसिद्धावपि न क्षतिः । विवेचयिष्यते चैतदने ।
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy