________________
सव्याख्य सर्वार्थासीद्धसहिततत्वमुक्ताकलापे
[जडद्रव्य
सर्वार्थसिद्धिः संचरति हि मूर्ते तस्य विभुनश्च * संयोगा विद्यन्त एव । प्रकृ. तिशब्दः प्राग्वद्विकृतीनामप्युपलक्षकः। त्रिगुणशब्दाभिलप्यद्रव्यमित्यर्थः। तत्स्वगुणैरेव लक्षयति-गुणैरियादिना । इह-अव्यक्तकालयोर्मध्ये।
आनन्ददायिनी निरासः ; ज्ञातताया अतीतधमर्यादौ स्ववर्तमानव्यवहारप्रयोजकधर्मावच्छिन्नत्वात्। कचित्तु संयोग एव विकार इत्याहुः । अन्यतरकर्म संयोगहेतुरस्तीत्याह-संचरति हीति । लक्ष्यतावच्छेदकमाह-त्रिगुणशब्दाभिलप्येति । ननु सत्वपूर्वरित्यत्र सत्वविशिष्टरजस्तमोवत्त्वं लक्षणमिति भाति; तच्चायुक्तं ; रजस्तमसोरेव प्रत्येकं लक्षणत्वसंभवात्। नापि प्रत्येकं
भावप्रकाशः तया धर्माणामागन्तुकत्वेऽपि धर्मिण ईश्वरादोर्नत्यत्वानपगमात् ।
'उपयन्नपयन् धर्मो विकरोति हि धर्मिणम्'
इति परिभाषामवलम्बमानानां सांख्यानां योगानां च कूटस्थनित्यं परिणामिनित्यमिति विभागो निर्मूल एव । अन्यथा तन्मते पुरुषा भ्युपगम एव निरर्थक आपद्येत इति भावः । * 'संयोगा विद्यन्त एव इति
'अप्राप्तयोस्तु या प्राप्तिस्सैव संयोग ईरितः । इति तु परिभाषामात्रं । अत एव तेषां आकाशादिषु मूर्तसंयोगस्य एकदेशिभिः विभुद्वयसंयोगस्य च अङ्गीकारो युज्यत इति भावः ।
अचिजीवस्वधीद्वारा स्वरूपेण च सर्वगे ।
अवस्थास्सन्त्यदोषास्ते निर्विकारोक्तिरन्यतः ॥ इति तत्वटीकासूक्तिरत्रानुसन्धेया ॥