________________
12
सव्याख्यसर्वार्थसिद्धिसहित तत्वमुक्ताकलापे
जडद्रव्य
सर्वार्थसिद्धिः कोनुमानयोाप्तिः शङ्काकळङ्किता स्यात् । परोक्तानुमानानामन्यतरासिद्धयन कान्तिकत्वायुद्भावनं च कथं स्यात् ? परो वा
भावप्रकाशः दिव्यमङ्गलविग्रहविशिष्टनिगुणवासुदेवाविषयकत्वस्य ‘संप्रज्ञातस्थितिमतिगते निर्विकल्पे समाधौ' इत्यादिश्लोके व्यक्तत्वात् । सूत्रकारश्च'इतरे त्वर्थसामान्यात् ' 'आनन्दादयः प्रधानस्य' इति सूत्रद्वयन स्वरूपनिरूपकचिदचिद्वयावर्तकगुणवत्तायाः मोक्षोपायज्ञाननैयत्यं सिद्धान्तयामास । वपुषःकाळिमेत्यनेन दिव्यमङ्गलविग्रहस्य सर्वविद्यानुयायित्वव्यञ्जनन अद्रव्यमध्ये शब्दस्पर्शरूपरसगन्धानां तथात्वस्य सूचनात्। 'सर्वं खल्विदं ब्रह्मेत्यादि . . अनादरः' इत्यन्तशाण्डिल्यविद्यासन्दर्भ दिव्यमङ्गलावग्रहस्य तद्गुणानां च विषयत्वस्य सर्वत्रप्रसिद्धयधिकरणभाष्ये व्यक्तमुपपादनात् । दहरविद्यायां च तस्मिन् यदन्तस्तदन्वेष्टव्यम्' इत्यत्र 'अस्मिन् कामाम्समाहिता.' इत्यत्रैवोक्तगुणानां विवक्षा 'तस्मिन् यदन्तः इति कामव्यपदेशः' इति वाक्यग्रन्थसिद्धा । तत्र शक्तेरपहतपाप्मत्वादौ संयोगम्य सर्वविद्यानुयायिन्यनन्तत्वादौ निर्गुणश्रुतौ निषेध्यतया सत्वरजस्तमसां च ज्ञेयता भाष्यादिनिष्णातानां सुगमा । जडाजडविभागे च स्वयंप्रकाशत्वज्ञानस्य अचिद्विलक्षणत्वज्ञापनमुखेन पारलौकिकभोगार्थप्रवृत्तिप्रतिबन्धकनिवृत्तिसंपादकता 'प्रकृत्यात्मभ्रान्ति. गलति चिदचिल्लक्षणंधिया' इति सूक्तिसिद्धा । ब्रह्मणि स्वयंप्रका शत्वस्य सर्वविद्यानुयायिता 'ज्ञानत्वं ज्ञातृभावात् स्वरबहुलतया स्वप्रकाशत्वतश्च' इत्यनेन निर्णीता । प्रत्यक्पराविभागे च अहन्त्वरूपप्रत्यक्तज्ञानस्य 'अहमर्थो न चेदात्मा' इत्यादिभाष्योदाहृतसूक्तिप्रतिपादितदिशा मोक्षार्थप्रवृत्त्युपयोगित्वं धर्मभूतज्ञानस्य पराक्तेन धर्मिभिन्नत्वज्ञानसंपादनमुखेन चोपयोग इत्यादिकं स्वयमूह्यम् ॥