________________
सरः
प्रबनधवतरणम्
11
तत्वमुक्ताकलापः परोपासना मुक्तिहेतुः शक्यः
सर्वार्थसिद्धिः 1*परोपासनेति सर्वविद्याभिप्रायम् । परस्य ब्रह्मण उपासनेति वा। शक्य इत्यादि-*न हि द्रव्याद्रव्यविभागाभावे शिष्टोपासनमूलकतत्वप्रतीतिसिद्धिः तत्वनिरूपणाभावे च तत्वनिर्णयोपयुक्तयोस्त
आनन्ददायिनी योगवृत्त्या सर्वविद्यापरत्वमाह-परस्येति । तत्तदिति--जीवेशपरत्वे
भावप्रकाशः *परोपासनेति --उपासनैव मोक्षसाधनमिति प्राचां वृत्तिकाराणां सम्मतमित्यन्यत्र स्पष्टम् । अत्र उपासकस्य प्रपदनमङ्गकोटौ । अशक्तानां तूपासनास्थाने इति वेदार्थसंग्रहतात्पर्यदीपिकादौ । एतेन-ईशेशितव्यपरावरविभागज्ञानस्यापि उपासाद्वारैवोपयोगः न तु साक्षादिति सूचितम् ॥
*नहीत्यादि । अयमाशयः-ईशेशितव्यपरावरविभागज्ञानस्य किं रूपमपवर्गसिद्धावन्तरङ्गत्वं साक्षादुपायत्वं आहो स्वित्परम्परयोपकारकत्वम्? नाद्यः भक्तिप्रपत्तिव्यतिरिक्तविभागज्ञानस्योपायताया अप्रामाणिकत्वात् । द्वितीये तु जीवस्य परब्रह्मणोत्यन्तनिकर्षज्ञानसंपादनमुखेन भगवद्भक्तिजननादिद्वारा तस्योपयोगवत् द्रव्याद्रव्यविभागज्ञानस्यापि ब्रह्मगुणानां ब्रह्मणश्च तात्विकपरस्परभेदवत्त्वादिज्ञानसंपादनमुखेन प्रतिनियतगुणवद्ब्रह्मज्ञानस्यैव मोक्षोपायत्वस्थिरीकरणमूलकभगवद्भक्तयादिजननात्मकोपकारकत्वस्य तुल्यत्वात् । असंप्रज्ञातसमाधावपि 'परास्य शक्तिविविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च' इति श्रुत्युक्तघाड्गुण्य