________________
सरः]
प्रबन्धावतरणम्
13
तत्वमुक्ताकलापः तत्तत्प्रकारावगतिविरहिभिर्नैव याथात्म्यबोधः । तेते चार्था विदध्युः कुमतिविरचिताः तत्वबोधोप
सर्वार्थसिद्धिः कथमस्मत्सिद्धान्तानभिज्ञः कथायामस्माभिरधिकुर्यात् ? परकल्पितार्थभङ्गेन तदहंकारखण्डनं च तत्वाध्यवसायसंरक्षणार्थम् । तत्तदिति प्रस्तुतौ जीवेशौ गृह्यते । अथवा तत्तत्प्रकृत्यादिप्रकारबोधाभावे तत्प्रतिसंबन्धिकं तयोरपि याथात्म्यं नावगम्येत । ते ते चार्थाः-'ब्रह्मविवर्तपरिणामभिन्नाभिन्नत्वादयः। कुमतिविरचिताः कुदृष्टिभिः कल्पिताः भ्रान्तिविजृम्भिता इति वा ।
आनन्ददायिनी वीप्साया अभावात् द्वन्द्वो वाच्यः ; स न युक्तः एकशेषप्रसङ्गादित्यभिप्रायेणाह-अथवा इति-केचित्तु .. ' तत्तदिति प्रकृतौ जीवेशी गृह्यते' इत्यस्यायमर्थः-तत्तदित्यत्र प्रथमतच्छब्देन जीवेशौ गृह्यते । तयोः तत्प्रकारः-तत्तत्प्रकारः ; व्यावर्तकत्वेन श्रुतिप्रतिपन्नप्रकारः इति न वीप्साद्वन्द्वौ ; अपि तु षष्ठीतत्पुरुषः इत्याहुः । मायिनो विवर्तपक्षः । भास्करस्य परिणामः । यादवस्य भेदाभेदौ । आदिशब्देनासत्कार्य
भावप्रकाशः 1*ब्रह्मविवर्तेत्यादि-उपादानविषमसत्ताकोऽन्यथाभावो विवर्तः । तत्समसत्ताकोऽन्यथाभावः परिणामः । अत्र परिणामपक्षः शङ्कराचार्यभ्योऽपि प्राचीनस्य भर्तृप्रपञ्चस्य अर्वाचीनानां यादवप्रकाशानां च संमत इत्युत्तरत्र व्यक्तीभविष्यति। विवर्तवादः ब्रह्मस्वरूपपरिणामवादश्च दूषितौ श्लोकवार्तिके भट्टैः ॥