SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ 8 सव्याख्य सर्वार्थसिद्धिसहिततत्वमुक्ताकलाप: [जडद्रव्य तत्वमुक्ताकलापः आतन्वानः प्रकाशं बहुमुखमखिलत्रासवैधुर्यधुर्यो धार्यों हेतु *जयादेस्स्वहृदि सहृदयैस्तत्वमुक्ताकलापः ॥ ३ ॥ सर्वार्थसिद्धिः धीस्थत्वम् । प्रकाशं-आलोकं बोधं च । बहुमुस्वं सर्वतोदिकं सर्वविषयं च । त्रासो-मणिदोषः प्रतिपक्षाद्भीतिश्च । जयादेरित्यादिशब्दन क्वचिदैश्वर्यादेरन्यत्र तत्वनिर्णयस्य च संग्रहः । हृच्छब्दो वक्षश्चित्तं च वदति । सहृदयैस्सारासारविवेचनाहहृदयवाद्धः। धार्यः क्वचिदाभरणतयाऽन्यत्राप्रमोपेण ॥ ३ ॥ ___आनन्ददायिनी नाशयः ; तद्व्याख्याने-'स्वरसन्ध्याप्तसौन्दर्ये यतिभङ्गो न दोषभाक्' इत्यभिधानात् । अत्र स्वरसन्धिलब्धसौन्दर्यसत्त्वान्न दोष इति भावः ।। भावप्रकाशः अपि विधिकोटिवादिन एव । 'सत्संप्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म' 'ज्ञोऽत एव' इत्यादिसूत्रैस्तथाऽवगमात् । अत एव शबरस्वामिनाऽपि आत्मनोऽहम्प्रत्ययविषयत्वं विज्ञानाश्रयत्वं चोक्तम् । कुमारिलभट्टैश्च आत्मनः कौटस्थ्यानराकरणपूर्वकं तद्वयवस्थापनं कृतम् । शङ्कराचार्यैरपि समन्वयाधिकरणे आत्मनः कूटस्थनित्यताभ्युपगमेन वृत्तिकारमतं निराकृतम् । अतो मीमांसका अपि सगुणात्मवादिन एव । विभागे चास्मिन् ब्रह्मणः परिणामज्ञानं स्वभिन्नगुणवत्ता ज्ञानं च मोक्षसाधनमित्येतदंशद्वयसूचनंफलम् । अत एव · जन्माद्यस्य यतः' 'परिणामात्' 'अदृश्यत्वादिगुणको धर्मोक्तेः' 'विवक्षितगुणोपपत्तेश्च' इत्यादिसंगतिः । व्यक्तीभविष्यति चेदमुपरिष्टात् । * 'जयादेरित्यनेन न्यायसिद्धाञ्जनन्यायपरिशुद्धयपेक्षया तत्वमुक्ता कलापस्य परमतनिराकरणप्राधान्यं बोध्यते ॥
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy