________________
सरः
प्रबन्धावतरणम्
तत्वमुक्ताकलापः शिष्टा
सर्वार्थसिद्धिः 1*नन्वपवर्गसिद्धौ यदन्तरङ्गं तदेव विशदं तदर्थिभिरवगन्तव्यम् । तावदेव शिष्यादिभ्योऽपि प्रवर्तितव्यम्, किमन्यैरिह कीर्त्यमानैरित्यत्राह-शिष्टेति ।
आनन्ददायिनी ननु तत्वमुक्ताकलापं व्यातानीत् इति वदता तत्वनिरूपणं विहाय जीवेशज्ञानपूर्वकोपासनाया मुक्तिहेतुत्वप्रतिपादनमनुपपन्नं इत्यत्राह-ननु अपवर्गसिद्धाविति ॥
भावप्रकाशः 1* नन्वपवर्गसिद्धाविति-अयमाशय:-~-यद्यपि पदार्थानां परस्परव्यावर्तकाकारप्रदर्शनैदम्पर्येण प्रवृत्ते वैशेषिकदर्शने द्रव्यगुणकर्मसामान्यविशेषसमवायरूपेण विभक्तानां पदार्थानां मध्ये कर्मादीनां द्रव्यगुणयोरेवान्तर्भावेन द्रव्यस्यापि गुणत्वेन व्यवहारेण च गुणपदस्थाने अद्रव्यपदं निवेश्य द्रव्यमद्रव्यमित्येव तत्सूत्रं शिक्षणीयमिति व्याससिद्धान्त इति न्यायपरिशुद्धौं निपुणतरमुपपादयिष्यमाणदिशा द्रव्याद्रव्यविभागोऽपि युक्तस्स्यान्नाम ; अथापि न्यायपरिशुद्धौ प्रमेयाध्याये द्रव्याद्रव्यविभागज्ञानस्य साक्षादपवर्गसाधनत्वाभावस्य स्फुटं प्रदर्शनात् श्रुतिसंप्रदायसिद्धं स्वैरेव ग्रन्थान्तरेषु प्रदर्शितं ईशेशितव्यविभागं परावरविभागं च परित्यज्य द्रव्याद्रव्यप्रभेदादिति वक्ष्यमाणविभागकरणमनुचितं ईशेशितव्यपरावरविभागज्ञानस्य अपवर्गान्तरङ्गत्वात् इति ॥