________________
सरः]
प्रबन्धावतरणम्
तत्वमुक्ताकलापः प्रज्ञासूच्यानुविद्धः क्षतिमनधिगतः कर्कशात्तकंशाणाच्छुद्धो नानापरीक्षास्वशिथिलविहिते मानसूत्रे निबद्धः ।
सर्वार्थसिहिः प्रबन्धस्य स्वरूपातिशयादपि सुधीभिस्स्वीकार्यत्वमाहप्रज्ञेति । ज्ञातस्यातिशयाधायिनी धीः प्रज्ञा । कलापस्य अनुविद्धत्वादि प्रत्येकद्वारा । तत्वानां प्रज्ञया अनुविद्वत्वं सम्यनिर्धारितत्वम् । रत्नान्तरेषु शाणक्षतिसंभवो न मुक्तासु । प्रमाणतर्याथात्म्यान्वेषणं परीक्षा । तन्नानात्वं तर्कादिभेदात् । मुक्तासु स्वानुगुणपरिमाणयुक्तं सूत्रं मानसूत्रम् । अन्यत्र प्रमाणमेव सूत्रं तस्य अशिथिलविहितिः-निर्बाधत्वेन विशेषतो
आनन्ददायिनी प्रबन्धातिशयवर्णनमपि प्रारिप्सिताननुगुणमित्यत्राह-प्रबन्ध स्येति-शुद्धो नानापरीक्षास्वित्यत्र ‘म्रघ्नैर्यानां त्रयेण त्रिमुनियति - युता स्रग्धरा' इति स्रग्धरालक्षणे मुनियतिमत्त्वमुक्तमिति तदभावो
भावप्रकाशः माणाः कौटस्थ्यभङ्गभिया निर्गुणमात्मतत्वं सागरन्ते । आहुश्च
तस्मान्न बध्यतेऽसौ न मुच्यते नापि संसरति कश्चित् ।
संसरति बध्यते च नानाश्रया प्रकृतिः ॥ इति । तत्र नैयायिका वैशेषिकाश्च विधिकोटिवादिनः । साङ्ख्या योगाश्च निषेधकोटिवादिनः । पूर्वोत्तरमीमांसावृत्तिकारा मीमांसका