________________
सव्याख्यसथिसिद्धिसहिततत्वमुक्ताकलापे
जडद्रव्य
तत्वमुक्ताकलापः नानासिद्धान्तनीतिश्रमविमलधियोऽनन्तसूरेस्तनूजो वैश्वामित्रस्य पौत्रो विततमखविधेः पुण्डरीकाक्षसूरेः । श्रुत्वा रामानुजार्यात्सदसदपि ततस्तत्वमुक्ताकलापं व्यातानीद्वेङ्कटेशो वरदगुरुकृपालम्भितोदामभमा ॥ २ ॥
सर्वार्थसिद्धिः यथास्थानमूह्यम् ॥१॥
चिकीर्पितस्य श्रद्धेयत्वाय वक्तसंप्रदायवैलक्षण्यं दर्शयतिनानेति । सत्-प्रामाणिकं मुमुक्षुभिरुपादेयं च तदन्यत् असत् । सतस्सत्त्वेन असतश्चासत्त्वेन श्रवणमिहेष्टम् । ततःश्रवणादेव हेतोः॥
आनन्ददायिनी यथास्थानभिति-----अविरलतुलसीत्यादौ ॥ १ ॥
___ ननु प्रारिप्सितं विहाय नानासिद्धान्तेत्यादिना स्वमहिमवर्णनमनुचितमित्यत्राह-चिकीर्षितस्येति । सदसतोर्वैपरीत्येन श्रवणे श्रद्धेयत्वं न स्यादित्यत्राह-सत इति। व्यातानीदिति-आशंसायाम् ; कर्तुमाशंसत इत्यर्थः । सङ्कल्पमात्रेण ग्रन्थस्य सिद्धत्वं मत्वा भूतनिर्देशः ॥ २ ॥
भावप्रकाशः न्यायपरिशुद्धौ वक्ष्यते । इह केचन दार्शनिकाः बन्धमोक्षव्यवस्थादिसौकर्यमभिसंदधाना अहं प्रत्ययविषयं सगुणमात्मतत्वमाचक्षते । अपरे पुनर्दार्शनिकाः कूटस्थनित्यं परिणामिनित्यमिति द्वैविध्यं परिभाष