________________
सरः]
प्रबन्धावतरणम्
तत्वमुक्ताकलापः अमा काळिन्दीकान्तिहारी कलयतु वपुषः काळिमा *कैटभारेः ॥१॥
सर्वार्थसिद्धिः काळिन्दीकान्तिहारीत्यनेन *तद्गुणानां परगुण *तिरस्कारकत्वमुपलक्ष्यते । कैटभारेवपुष इति व्यतिरेकविभक्तया शुद्धसत्वमयविग्रहयोगस्तस्य स्वरूपादन्यत्वं च स्थाप्यते । वपुषः काळिमेति *द्रव्याद्रव्यविभागप्रदर्शनार्थम् । एवं जडाजडायपि
भावप्रकाशः 1* कैटभारेरिति—एतच्च अनिरुद्धम्य हयशिरोरूपधारणेनेति स्पष्टं मोक्षधर्मे । *तद्गुणानामिति---कैटभारेर्वपुषः काळिमेत्यत्र दिव्यमङ्गळविग्रहसंबन्धिगुणमात्रप्रदर्शनं भगवता साक्षादसंबद्धानामपि दिव्यमङ्गळविग्रहसंबन्धिगुणानां संपदोघप्रदत्वे भगवता साक्षात्संबद्धानां ज्ञानशक्तयादिगुणानां तत् कैमुतिकन्यायेन सिद्धयतीति दर्शयितुं भगवद्गुणानामिव दिव्यमङ्गलविग्रहस्याप्युपासनानियतत्वं ख्यापयितुं च । अतश्च तद्गुणानामित्यत्र साक्षात्परम्परया च भगवत्संबन्धिनो गुणा विवक्षिताः । *तिरस्कारकत्वमिति---कैटभारिशब्दघटककैटभशब्दयोगार्थोऽप्येनमुत्तम्भयति । अत एव मधुसूदनादिपदत्यागः । तेन 'यं पश्येन्मधुसूदनः' इति हयशिर उपाख्यानानन्तराध्यायस्थवचनानुसन्धानेन भगवद्यामुनमुनिभिः 'तस्मै नमो मधुजिदङ्गि' इत्यत्र मधुजिच्छब्देन हयशिरसो निर्देशवत् नात्र कुतो निर्देश इति शङ्का प्रत्युक्ता। चशब्देन तस्य मोक्षसाधनज्ञानविषयता समुच्चीयते । *द्रव्याद्रव्ये.. त्यादि-विभागे चात्र द्रव्यगुणेत्याद्यक्षपादसूत्रपरिष्करणं मूलमिति