________________
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
जडद्रव्य
श्रीतत्वमुक्ताकलापः लक्ष्मीनेत्रोत्पलश्रीसततपरिचयादेष संवर्धमानो नाभीनाळीकरिङ्गन्मधुकरपटलीदत्तहस्तावल. म्बः। अस्माकं संपदोघानविरलतुळसीदामसञ्जात
सर्वार्थसिद्धिः हेण सूचयति-लक्ष्मीति । * 'यज्ञविद्या' इत्यादिना सर्वविद्यानां तादधीन्योक्तया सा ख्याप्येति लक्ष्मीरादौ संकीयते । नित्ययुक्तत्वसूचनाय सततपरिचयोक्तिः । नाभीत्यादिना पद्मभुवः कार्यत्वकर्मवश्यत्वसूचनात्ततोऽवाचामनीश्वरत्वं कैमुतिकसिद्धम् । अस्माकमिति जीवानां ईश्वरात् अन्योन्यं च भेदः प्रत्यक्त्वं अहंशब्दार्थत्वं च प्रख्याप्यते, तेन स्थालीपुलाकन्यायेन परमतनिरासमप्युदाहरति । संपदोघानिति-* तत्वज्ञानादिकाः स्वप्राप्तिपर्यन्तास्सिद्धिपरम्पराः। अविरळेत्यादिना सत्वाधिकप्रशस्ततमद्रव्यार्चनीयतयाऽन्येभ्यो व्यावर्तनीयत्वं वर्ण्यते।
भावप्रकाशः व्यासो जैमिनिरप्रतीपहृदयावाचार्यशिप्यौ परां मीमांसां निबबन्धतुः तदनु तां बोधायनाद्या बुधाः । व्याख्यन् ब्रह्मनयस्य लक्ष्मणमुनिर्भाष्यादि तत्र व्यधात् तत्सर्वं सुदृढीचकार निगमान्तार्यो दयन्ताभिमे ॥ ४ ॥
** यज्ञवियेत्यादि---विष्णुपत्नया एव वाग्देव्या अनुग्रहवशात् व्यासस्य वेदविभागब्रह्मसूत्रमहाभारतकरणमिति ब्रह्मवैवर्ते स्पष्टम् । निरूपितं चैतत् हयशिरोरत्नभषणे ।