________________
सरः]
प्रवन्धावतरणम्
सर्वार्थसिद्धिः ताराकल्पे स्फुरति सुधियां तत्वमुक्ताकलापे दूरावृत्त्या दुरधिगमतां पश्यतां सर्वसिद्धयै । नातिव्यासव्यतिकरवती नातिसङ्कोचखेदा वृत्तिस्सेयं विशदरुचिरा कल्प्यतेऽस्माभिरेव ॥२॥
आरिप्सितस्य प्रबन्धस्याविनपरिसमाप्तयादिसिद्धयै मङ्गळमाचरनाद्वक्ष्यमाणं द्रव्याद्रव्यविभागं प्रतितन्त्रविशेषांश्च संग्र
आनन्ददायिनी श्रीमान् वेङ्कटनाथार्यः तत्वहितपुरुषार्थज्ञानहीनानवलोक्य सञ्जातकारुण्यः तद्रक्षणाय प्राचीनप्रबन्धेषु संक्षिप्तान् विप्रकीर्णाश्च सङ्कलय्य तत्वमुक्ताकलापाख्यपद्यरूपप्रबन्धेन निरूप्य तस्य दुरधिगमतामवलोक्य स्वयमेव व्याख्यास्यन् निर्विघ्नपरिसमाप्तिप्रचयगमनाय शिष्टाचारपरिप्राप्तं गुरुप्रकाशनरूपं मङ्गलमारचय्य शिष्यशिक्षार्थं निबध्नाति-जयतीति ॥
ताराकल्पे-नक्षत्रसदृशे । दूराद्वत्या-नक्षत्रपक्षे दूरस्थित्येत्यर्थः । 'दूरान्तिकार्थेभ्यो द्वितीया च' इति सप्तम्यर्थे पञ्चमी । ग्रन्थपक्षे वृत्तिः---व्याख्या वृत्त्या इति षष्ठी ; वृत्तेर्दूराद्धेतोः-वृत्त्यभावादिति यावत् । यद्वा कर्तरि तृतीया । वृत्त्या--क्रमदूरत्वादित्यर्थः । दुरधिगमत्वं एकत्र अप्राप्तिः अपरत्राज्ञानम् । व्यासो-विस्तरः । व्यतिकरः-सङ्कीर्णता । खेदा-खिद्यमाना कर्मणि घञ् ।
भावप्रकाशः श्रीकृष्णब्रह्मतन्त्रात् कलिमथनगुरोर्लब्धवेदान्तसारः विन्यस्तस्वात्मभारो वरदपदमुखे लक्ष्मणे देशिकेन्द्रे । वागीशप्राप्ततुर्यः हयमुखचरणबाणसेवाधुरीणः काचित्काचार्यभावं प्रकटयति यतिः नव्यरङ्गेन्द्रनामा ॥ ३ ॥