________________
सव्याख्य सर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
जडद्रव्य
श्रीतत्वमुक्ताकलापव्याख्या सर्वार्थसिद्धिः
जड द्रव्य सर: प्रथमः
श्रीमान् वेंकटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यों मे सन्निधत्तां सदा हृदि ।। जयति सकलविद्यावाहिनीजन्मशैलो जनिपथपरिवृत्तिश्रान्तिविश्रान्तिशाखी । निखिलकुमतिमायाशर्वरीबालसूर्यो निगमजलधिवेलापूर्णचन्द्रो यतीन्द्रः॥१॥
आनन्ददायिनी आत्रेयवंशदुग्धाब्धिप्रालेयांशुं कलानिधिम् । सुराचार्यसमप्रज्ञमप्पलाचार्यमाश्रये ॥ ६ ॥ श्रीवत्सगोत्राम्बुधिमध्यदेशात् बभूव चन्द्रो नरसिंहनामा । तस्यात्मजः साधुजनैकसेवी नृसिंहदेवः प्रथितो धरायाम् ॥ ७ ॥ तोतारम्बातनयः पौत्रश्रीदेवराजस्य । दौहित्रः कुशिककुलश्रीभाग्यश्रीनिवासस्य ॥ ८ ॥ अप्रसिद्धस्य पक्षस्य विस्तरेण प्रकाशिकाम् ।
सर्वार्थसिद्धिसट्टीकां करोम्यानन्दवल्लिकाम् ॥ ९ ॥ इह खलु कवितार्किकसिंहः सर्वतत्रस्वतन्त्रो वेदान्ताचार्यापरनामा
भावप्रकाशः वेदान्तगुरुमुखाचितवागीशपदारविन्दमधुपाळिम् । श्रीब्रह्मतन्त्रकालजिन्मणिमालां वन्दिषीय समहार्घाम ॥ २ ॥