________________
632
सव्याख्यसर्वार्थसिद्धिसाहिततत्वमुक्ताकलापे
जडद्रव्य
सर्वार्थसिद्धिः णामः । तत्संख्याप्रकर्षतारतम्यान्मुहूर्तादिविभागः। अत(तत)एव चाब्दादीनामाद्यन्तमध्यमाद्युत्पत्तिक्षणविकल्पचोद्यं निस्तर्णिम । प्रतिपुरुषमिष्टक्षणारम्भेणाब्दादिगणनापि युक्तैव । अत्र च स्वतः क्षणादिभेदानभ्युपगमे कथमुपाधिभिरपि भेदस्स्यात् ? तेषां
आनन्ददायिनी संवत्सरादिव्यवहारश्च तत्तत्संख्याप्रकर्षतारतम्याधुज्यत इति भावः । एतेन अब्दादिपरिणामो द्वादशमासादिपरिणामव्यापकः किमादिमासप्रथमदिवस उत्पद्यते ? उत मध्यमासमध्यदिवसे ? यद्वा अन्त्यमासान्त्यदिवसे? नाद्यः; आदावेवोत्पन्नत्वे तस्मिन्नेव दिवसे मासादिषु संवत्सरव्यवहारप्रसङ्गः । किं च क्षणे संवत्सरादिपरिणामो वर्तते न वा? . तत्र वृत्तौ क्षण एव संवत्सरस्स्यात् । तत्रावृत्तौं ततोऽतिरिक्तकाले संवत्सरव्यवहारो न स्यात् । न च तदोत्पन्नसंवत्सररूपपरिणामो द्वाद-. शमासपर्यन्तस्थायी(ति)तावता परिसमाप्यत इति नैकदिवसादौ व्यवहारप्रसङ्ग इति वाच्यम् ; तथात्वे व्यासज्यवृत्तिता स्यात् । तथाच तावदिवसानामभावात् केवलकालमात्रप्रतीतिर्न स्यात् । न च पूर्व(पूर्व) दिवसानुसन्धानपूर्वकान्त्यदिवसप्रतीतिकाले प्रतीयत इति वाच्यम् ; तथात्वे तावदिवसपरिणामस्यैव संवत्सरत्वोपपत्तौ तदतिरिक्तपरिणामकल्पने प्रमाणाभावात् । अत एव न द्वितीयतृतीयावपीति संवत्सराद्युत्पत्तिरनुपपन्नेति शङ्कापि निरस्तेत्याह-अत एवेति । क्षणसङ्ख्याप्रकर्षविशेषस्यैवाब्दादित्वादित्यर्थः । क्षणपरिणामे सर्वप्रत्ययं प्रमाणयतिप्रतिपुरुषामिति । इष्टः-प्रमाणेनाभ्युपगतः । ननु क्षणादिप्रतीतिरप्युपाधिभिरस्तु किंपरिणामेनेत्यत आह-~~-अत्र चेत्यादि । तदेवोपपादयतितेषामिति । तथाच कालमात्रस्य क्षणोपाध्यवाच्छिन्नत्वात् सङ्ख्यापरि