________________
सरः] परिणामपक्षे मासादिस्वरूपोपपत्तिः पक्षद्वयलोल्यं च दिगम्बरदूषणं च 633
सर्वार्थसिद्धिः कालमात्रेण संबन्धे तद्विशेषकत्वायोगात् । तदंशेन संबन्धे तु स्वत एव कालांशभेदसिद्धेः। ननु कालविकारेष्वपि कृत्स्नैकदेशसंबन्धविकल्पदोषस्समानः । विकारान्तरेण भेदेऽनवस्थाप्रसङ्गश्चेति चेन्न; आश्रयैकदेशवृत्तिगुणादिन्यायेन निर्वाहादिति । अयं परिहार उपाधिसंबन्धमात्रपक्षेऽप्यविशिष्ट इत्यन्ये मन्यन्ते ।
स्पन्दसंततिसिद्धयर्थं कालस्याणुत्वकल्पनम् । आशावसानतोकानां दुराशामात्रजृम्भितम् ॥
___ आनन्ददायिनी माणाधवच्छिन्नघटस्येव भेदो न स्यादित्यर्थः । स्वत एवेति--स्वतोऽशाभावे औपाधिकस्याप्यसम्भवादिति भावः । नन्विति --उपाधिपक्ष एव ज़्यायानित्यर्थः । आश्रयैकदेशेति--स्वपरनिर्वाहकतया कालभेदकत्वमिति भावः । ननु परिणामपक्षे क्षणपरिणामस्य क्षणिकत्वावश्यम्भावात् क्षणिकत्वानुमाने(साध्याप्रसिद्धया)व्याप्यत्वासिद्धयुद्भावनं न स्यात् । नचोपाधिपक्षेऽप्ययं दोषः! क्षणोपाधीनां क्षणिकत्वाभावस्योपपादितत्वादित्यस्वरसादुपाधिपक्षमुपक्षिपति---अयं परिहार इति । कालसम्बन्धप्रकर्षः परत्वम् । तन्नयूनत्वमपरत्वम् । सम्बन्धश्च संयोगः । स च क्रियाधीनः । क्रिया च विभुत्वेऽनुपपन्ना । तथाच न तन्निबन्धनसंयोगादिसम्भवः । न च कालस्य निष्क्रियत्वे(यस्या)प्यन्यस्य परिच्छिनत्वात् तक्रियातस्संयोग इति वाच्यम् ; तथाऽपि प्रथमसंयोगानन्तरं निष्क्रियस्य स्थिरस्य तत्प्रकर्षायोगात् । विभुनश्च द्रव्यस्य संयोगमात्रस्याभावात् । तथाच परत्वादेरसम्भवप्रसङ्गात् । अणुः कालः स्पन्दसंततिसिद्धयर्थमङ्गीकरणीय इति जैनपक्षमनुभाषते--स्पन्देति । स्पन्दसंततिः-परत्वापरत्वहेतुक्रियासंततिः । आशावसानाः-दिगम्बराः ।