SearchBrowseAboutContactDonate
Page Preview
Page 697
Loading...
Download File
Download File
Page Text
________________ सर: काले वर्तमानत्वसमर्थनं वर्तमानाकलापदूषणं च 627 सर्वार्थसिद्धिः । ननु रूपादीनां वर्तमानकालसंबन्धो वर्तमानत्वम् ! नासो कालस्य स्यात् । मैवम्-त्वयैव कालस्य वर्तमानत्वेन रूपादिवर्तमानत्वनिर्वाहात् । वर्तमाननिषेधे च भवित्री विश्वनिढुतिः।। न ह्यतीतं भविष्यद्वा प्रत्यक्षविषयोऽस्ति नः ॥ वर्तमानभ्रमश्चात्र तत एव न सिध्यति । पौर्वापयतिरिक्ता तु दुस्त्यजा वर्तमानता ।। आनन्ददायिनी रूपादाविव काले वर्तमानत्वं युक्तमित्यर्थः । नन्वस्तु कालः स्थिरः क्षणिको वा ! तावतापि न रूपादिवद्वर्तमानता संभवति वर्तमानत्वं हि वर्तमानकालसंयोगित्वम् । न च वर्तमानकाले वर्तमानकालसंबन्धः ! स्वस्य स्वेन योगासंभवात् ; नापि कालान्तरेप्प अनवस्थाप्रसङ्गादिति शङ्कतेनन्विति । मैवमिति-रूपादीनां वर्तमानत्वं न कालसंबन्धमात्रे भाति अतीतादेरपि वर्तमानत्वप्रसङ्गात् । किं तु वर्तमानकालसंबन्धेन ; तथाच कालस्य वर्तमानत्वं सिद्धम् । न चानवस्थादिदोषः स्वपरनिर्वाहकत्वादिति भावः । ननु रूपादीनामपि वर्तमानता मा भूत् ! का नो हानिः? इत्यत्राहवर्तमाननिषेधे इति । तत्र हेतुमाह-अतीतमिति । सर्वस्यापि वर्तमानतया प्रत्यक्षप्रतीतेरित्यर्थः । नन्वतीतादिकमेव प्रत्यक्षविषयः । तत्र वर्तमानतया भ्रान्तिरेवेत्यत्राह-वर्तमानभ्रमश्चेति । अप्रसिद्धवर्तमानत्वस्याभावादेवेत्यर्थ इत्यन्ये । केचित्तु-अतीतानागतयोरिन्द्रियसन्निकर्षाभावेन अप्रत्यक्षत्वादेव वर्तमानतया भ्रमश्च न संभवतीत्यर्थ इत्याहुः । ननु पौर्वापर्यमेव क्षणानां वर्तमानता ; तदुभयसमुदायस्य न समुदायापेक्षयाऽन्यत्वमित्यत्राह–पौर्वापर्येति । अत्र हेतुमाह 40*
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy