SearchBrowseAboutContactDonate
Page Preview
Page 696
Loading...
Download File
Download File
Page Text
________________ सव्याख्य सर्वार्थसिद्धिसहिततत्व मुक्ताकलापे सर्वार्थसिद्धिः न तृतीयः; क्वचित्सिद्धस्यैवान्यत्र कल्प्यत्वात् ; तथा च तत्सिध्येत । रूपादिषु दृष्टं वर्तमानत्वं काले कल्प्यतामिति चेन्न : क्षणिक रूपादिसंततावपि पूर्वापरातिरिक्तवर्तमानत्वस्य त्वया दुर्वचत्वात् । अन्यथा कालेऽपि तदुपपत्तेः । कालमनिच्छतश्च ते काले कथं कल्पना ? निरधिष्ठानासौ कल्पनेति चेन्न ; ईदृशकल्पनाभ्युपगमे मध्यमा (माध्यमिका) गमप्रवेशप्रसङ्गात् । स्थिरवादे तु रूपादिष्विव केनचिद्रूपेण कालेऽपि वर्तमानत्वं सिद्धम् । 626 [जडद्रव्य आनन्ददायिनी : विषयेति । स्वविषयधीरात्मा ; आत्मातिरिक्तधीमात्रस्य निर्विषयत्वानभ्युपगमात् ; अन्यथा विश्वमात्रस्य निह्नवप्रसङ्गादिति भावः । केचित्तु - सविषयकत्वाद्धियां त्वदनभ्युपगमाच्चेति पाठान्तरम् ; तदा सविषयत्वनियमात् त्वन्मतविरोधाच्चेत्यर्थ इत्याहुः । क्वचिदिति --अन्यत्रसिद्धरजतादेश्शुक्तावारोपदर्शनादित्यर्थः । तथाचेति - वर्तमानकालस्सिद्धयेदित्यर्थः । ननु वर्तमानत्वं न कालस्वरूपं किं तु रूपादिवत् कश्चिद्धर्मः । स काले आरोप्यताम् । तावता न वर्तमानकालसिद्धिरिति शङ्कते – रूपादिष्विति । क्षणिकेति केषां चित् क्षणानां पूर्वत्वात् केषाञ्चिद्रपादिक्षणानां परत्वात् न रूपादावपि वर्तमानता संभवतीत्यर्थः । अन्यथेति-रूपादिक्षणा (ण) विशेषादित्यर्थः । कालमनिच्छत इति - रूपादिक्षणातिरेकेण तैः कालक्षणानभ्युपगमादित्यर्थः । मध्यमागमेति–माध्यमिकमतप्रवेशप्रसङ्ग इत्यर्थः । ननु सर्वत्र वर्तमानत्वं मा. भून्नाम ! तथा कालस्यापि क्षणिकत्वात् पूर्वापरकालव्यतिरिक्तः कालो न स्यादित्यत्राह — स्थिरवादे इति । सर्वस्यापि स्थिरत्वस्य साधितत्वेन
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy