________________
628
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलाप
লিভ
Annanown
सर्वार्थसिद्धिः अतीतागामिधीरेव वर्तमानमतिर्यदि। भृतभाविसमस्ताप्तया न शोकादिसमुद्भवः ॥ पूर्वापरत्वसंभेदे वर्तमानमतिर्यदि । त्रिकालस्थेऽपि तत्सिद्धेः क्वातीतागामिता भवेत् ॥ प्रारब्धश्चासमाप्तश्च वर्तमानो य उच्यते । व्यापारसमुदायोऽसौ विवक्षितफलावधिः ॥
आनन्ददायिनी अतीतेति । पौर्वापर्यं नाम अतीतागामित्वमेव । तद्धिय एव वर्तमानबुद्धित्वे भूतभविष्यत्सर्ववस्तूनामप्यवाधितवर्तमानविषयत्वेन सर्वस्वस्त्रीपुत्रादीनामतीतानामागामिनामपि वर्तमानबुद्धया तदत्ययप्राप्तिनिमित्तकश्शोकः कस्यापि न स्यादित्यर्थः । ननु पूर्वत्वापरत्वयोस्समाहारो वर्तमानत्वं न तु पूर्वत्वपश्चात्त्वमात्रम् । तथा च अतीतस्य केवलं पूर्वत्वादागामिनश्चागामित्वान्न दोष इत्यत्राह-पूर्वापरत्वसंभेदे इति । तथाच सति सर्वस्यापि किञ्चिदपेक्षया पूर्वत्वात्परत्वाच्च तत्संभेदस्य सर्वत्रापि सत्त्वेन अतीतादेरपि वर्तमानत्वप्रसङ्गस्तदवस्थः । ननु पूर्वा• परत्वसंभेदो न यत्किंचिदपेक्षया किं तु स्वापेक्षयैव विवक्षितः । स एव वर्तमानता । प्रारब्धापरिसमाप्त इति शाब्दैश्चोक्तः । अतो नातिप्रसङ्ग इत्यत्राह-~-प्रारब्धश्चेति । तत्र दूषणं वक्तुं शाब्दोक्तं तत्स्वरूपमाह.व्यापारसमुदाय इति । तत्रापि नैकस्य प्रारब्धत्वमसमाप्तत्वं च । अपि त्वेकफलावच्छिन्नस्य कस्यचियापारसमुदायस्य । तत्र कस्यचिद्भुतत्वं कस्यचिद्भावित्वमेव । तथाच फलोत्पत्तिपर्यन्तस्य समुदायस्य तदवयव. भूतत्वभावित्वाभ्यामुपचारात्प्रारब्धापरिसमाप्तत्वमुच्यत इति न कुत्रापि