________________
सरः
कालप्रत्यक्षत्वोपपत्तिः
623
तत्वमुक्ताकलापः क्षणलवदिवसायंशतोऽर्थान् विशिंषन् साक्षाद्धीस्तत्तदर्थेष्विव भवति हि नः कापि कालान्वयेऽपि ।
सर्वार्थमिद्धिः अवसीयमानप्रकारमाह-क्षणेति । क्षणमयं तिष्ठतीत्यादिप्रकारेण तत्तदर्थविशेषणतयाऽवसीयत इति यावत् । अभिज्ञायां क्षणरूपेण प्रत्यभिज्ञायां दिवसादिरूपेण चेति विभागः । अनुमीयमानो विशिष्यादित्यत्राह–साक्षादिति । प्रत्यक्षप्रतीतौ विशेषणतया दृश्यमानस्य कालस्यानुमेयत्वे तत्तत्पदार्थानामपि सौत्रान्तिको
आनन्ददायिनी क्षणस्य प्रत्यक्षत्वमस्ति अयं घट इति ; तथाऽपि दिवसादीनां (दीनामपि) न पदार्थविशेषणतया प्रत्यक्षत्वमित्यत्राह-अभिज्ञायां क्षणरूपेणेति । सोऽयमिति प्रत्यभिज्ञायां पूर्वदिवसेऽनुभूतोऽयमित्यादिना विशेषणत्वादित्यर्थः । प्रत्यक्षप्रतीताविति-ननु दिवसादीनामतीतानां संस्कारसन्निधापितानां प्रत्यक्षत्वं वाच्यम् ; न च दिवसादयः प्रागभिज्ञयाऽनुभूताः ! तथात्वेऽभिज्ञायामित्याधुक्तिविरोधात् । किञ्च दिवसादिकालस्य प्रत्यक्षत्वेऽपि न दिवसाधुपाधीनां प्रत्यक्षत्वम् ; तेषां तपनावृत्त्याद्यात्मनां युगपत्सन्निकर्षाभावेन प्रत्यक्षत्वाभावात् । अतोऽनुमेयस्यैव कालस्य विशेषणत्वमिति चेत् ; अत्राहुः-कालस्वरूपं प्रत्यक्षमित्यत्र न विवादः । यथा प्रत्यक्षसामग्री वर्तमानकालं (कालस्वरूप) गृह्णाति तथा तदुपाधिमपि ; अन्यथा कालसम्बन्धमात्रग्रहेऽप (ग्रह