SearchBrowseAboutContactDonate
Page Preview
Page 694
Loading...
Download File
Download File
Page Text
________________ 624 सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्तकलापे जडद्रव्य तत्वमुक्ताकलापः तत्संयोगाः परत्वादय इति च ततोऽप्येष नैवानुमेयो सर्वार्थसिद्धिः क्तनयादानुमानिकत्वं प्रसज्यत इति भावः । नचासावनुमातुं शक्य इत्याह-तत्संयोगा इति । कालमनभ्युपगच्छतां बुद्धिविशेषसंघटितसूर्यावृत्त्याधुपाधिभिरेव वैशिष्टयं वस्तूनां परत्वादि; अभ्युपगच्छतां तु तत्तदुपहितकालसंयोगाः । न च तदतिरिक्तं दृष्टं कल्प्यं वा! इत्यद्रव्यसरे स्थापयिष्यते । कालस्यानुमेयत्वेऽ - आनन्ददायिनी मात्रेऽपि) काले विशेषरूपोपाध्यग्रहणात् घटादेर्वर्तमानतया सन्देहस्स्यात् । तथा प्रत्यभिज्ञासामग्रयपि पूर्वसंस्कारसहिता प्रागनुभूतमासादिकालोपाधिरूपतपनपरिस्पन्दादिकमप्यसन्निकृष्टमावेदयति । तस्यास्तथास्वभा. वात् । न चातिप्रसङ्गः ; प्राक्तनानुभवक्षणावधिकस्वक्षणपर्यन्तकालोपाध्युपनायकत्वे तदभावात् । अत एव सन्निकर्षाभावादित्याद्यपास्तम् । न चानुमानात्काल(नातादृशकाल)धीः । तस्य प्रत्यक्षागोचरत्वे सामान्यतो विशेषतो वा व्याप्तयग्राहकत्वात् । त(अ)थाप्यनुमाने पदार्थमात्र एव तथाऽनुमानसंभवेन सौत्रान्तिकमतावतारप्रसङ्ग इति न तदुपहितकालप्रत्यक्षत्वानुपपत्तिरिति । तत्र हेतुमाह-न चेति । तथाचोपाधिसंयोगाद्यतिरिक्तं तज्जन्यं वा परत्वं न दृष्टं न कल्प्यं च कल्पकाभावात् । तथाच कालानुमानं न संभवतीत्यर्थः । परत्वापरत्वयोरतिरिक्तगुणत्वात् कथं तयोरुपाध्यादियोगमात्रत्वामत्यत्राह-अद्रव्यसरे इति । लोकव्यवहारविषयो न स्यादिति-लिङ्ग -
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy