________________
622
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[जडद्रव्य
तत्वमुक्ताकलापः कालोऽध्यक्षावसेयः
सर्वार्थसिद्धिः पूर्व परं च कालो नास्तीति वचनस्य बाध इत्यर्थः । अथवा पूर्वापरकालविरोधः । प्रलयादिकालमनूय हि प्रकृतिविकारास्सर्वे सृष्टिवाक्येषु प्रतिपाद्यन्ते ॥
कालोपश्लिष्टवेषेण ह्यभृदस्ति भविष्यतीन् । प्रयुञ्जतेऽर्थभेदेषु सदा चास्तिमनेहसः॥६७॥
कालोत्पत्तिवादनिरासः.
नीरूप(द्रव्य)स्यापि प्रत्यक्षत्वसंभवः प्रागेव साधित इति कृत्वा कालप्रत्यक्षत्वं लोकोपलब्ध्या नियमयति-काल इति ।
आनन्ददायिनी निर्वाहणीयास्तथेत्यर्थः । यद्यप्यत्र स्वारसिकार्थे बाधाभावादभिमानि देवतोपाध्युत्पत्त्या निर्वाहो न शक्य इति न्यायसिद्धाञ्जनविरोध इव ; तथाऽपि अत्र मायिवत् स्वरूपेणोत्पत्तिर्निषिध्यते न तु कलामुहूर्तादिरूपेण परिणाम इति न विरोध इति ध्येयम् । पूर्वापरेत्यस्य तद्न्थपूर्वापरवाक्यपरत्वे स्वारस्यादाह-अथवेति । तथाच यथाश्रुतस्वीकारे विरोध इति भावः । ननु कालस्यानुत्पत्तिविनाशत्वे अभूदस्ति भविष्यतीति काले अतीतत्वादिव्यवहारः कथं स्यादित्यत्राह-कालोपश्लिष्टवेषेणेति । कालोपश्लिष्टवेशेण पदर्थानामेवात्ययादिविषयता न कालस्य ; स तु पदार्थात्ययादिप्वपि स(सन्नेव हैव व्यवह्वियते इत्यर्थः ॥ ६७ ॥
कालोत्पत्तिवादनिरासः
कालसद्भावे प्रत्यक्षमपि प्रमाणमित्याह-नीरूपस्येति । यद्यपि