________________
सरः]
कालस्योत्पत्तिवादः तन्निरासश्च
621
तत्वमुक्ताकलापः यदि तत्को वदेत्काल सृष्टिम् ?। आप्तस्तत्सृष्टिवादस्तदुपधिपरिणत्यादिभिस्सार्थकस्स्यात् नो चेत् तत्रापि पूर्वापरवचनहतिदुर्निवारप्रसङ्गा ॥ ६७ ।।
सर्वार्थसिद्धिः तीति नास्माभिरुत्तरं देयम् । अथ पार्श्वस्थो यदि कश्चिद्रवीति ; तस्याप्युक्तदोषस्सम इत्यभिप्रायेणाह-तत्को वदेदिति । 'सदेव सोम्येदमग्र आसीत्, ‘नासदासीनो सदासीत्तदानीम्' इत्यादिश्रुतिविरोधश्चात्राभिप्रेतः। 'विद्याकालौ भवत्कृतौ' इत्यादिषु कालोत्पत्तिवचनं कथमित्यत्राह-आप्त इति । आप्तवाक्यस्थ इत्यर्थः । यथा निमेषादिसंवत्सरान्तजनिश्रुतिः पक्षमासादिष्वागमापायिताप्रत्याख्यातिश्च उपाधीनां तत्संयोगादिपरिणतीनां तदभिमानिदेवतानां वा सृष्टया अर्थवती तथाऽसावित्यर्थः । अन्यथा तत्रापि विरोधमाह-नो चेदिति । पूर्वापरवचनहतिः
आनन्ददायिनी मत्वाऽऽह-अथ पार्श्वस्थ इति । श्रुतिविरोधश्चेति-सदेव सौम्य' इत्यत्र 'तम आसीत्' इत्यादौ च अग्रशब्दस्य सृष्टिप्राक्कालवाचित्वेन तेन विरोधः। नासदासीदित्यादौ तदानीमित्यनेन विरोध इत्यर्थः । यथेति‘सर्वे निमेषा जज्ञिरे विद्युतः पुरुषादधि । कला मुहूर्ताः काष्ठाश्चाहोरात्राश्च सर्वशः । अहोरात्रे मासाश्च संवत्सरा अजायन्त' इत्यादिश्रुतयः । पक्षो गतः मासो गतः आगतश्चेत्यादिलौकिकव्यवहाराश्च । कालोत्पत्तिवादिनाऽपि सृष्टिप्रलयमध्ये कालस्यैकत्वेऽपि तदुपाध्यादिकमादाय यथा