________________
620
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[जडद्रव्य
तत्वमुक्ताकलापः कालस्योत्पत्तितः प्राक परमपि च लयात् कालनास्तित्ववादी स्वोक्तिव्याघातभनो न वदति
सर्वार्थसिद्धिः ये तु महदादिवत् कालतत्वमुत्पत्तिनाशवदिति तन्त्रानुसारिणो वदन्ति ; तान् प्रतिक्षिपति-कालस्येति । उत्पत्तेः पूर्वं नाशतः पश्चाच कालो नास्तीति वदन् किं तत्र पूर्वशब्दस्य पश्चाच्छब्दस्य च निरर्थकत्वं मन्यते सार्थकत्वं वा? पूर्वत्र निरर्थकनिग्रहस्थानापत्तिः । उत्तरत्र कालस्यैव तदर्थत्वात् तत्र कालनिषेधे स्ववचनविरोधः । अथ काले कालो नास्तीत्यविरोधं मन्येत तर्हि सृष्टिप्रलयमध्यकालेऽपि कालाभावात् तत्रापि कालनास्तितां ब्रूयादिति कथं कालसिद्धिः? गत्यभावान्मौनमाश्रित्य यः पूर्वं पश्चाच्च नास्तीति न ब्रूयात् । तदाऽस्मन्मतं न निषेध
आनन्ददायिनी __ प्रसङ्गसंगतिमाह-ये तु महदादिवदिति । तन्त्रान्तरानुसारिणःयोगमतानुसारिणः । कालस्यैव तदर्थत्वादिति--पूर्वपश्चाच्छब्दार्थतया काल(र्थत्वातदर्थ)मभ्युपगम्य तत्र तन्निष(धे)धव्याघात इति भावः। अथेतिअभेढ़े आधाराधेयभावाभावात् काले स्वस्य वृत्त्यभावात् घटे घटनिषेधवदविरोध इति भावः । सृष्टिप्रलयमध्ये इति–तथाच कालतत्वमेव न स्यात् सर्वदा तस्यासत्त्वादित्यर्थः । गत्यभावादिति-व्याघातस्य परिहाराभावादित्यर्थः । तदेति-कालस्य निषेधासम्भवान्नासौ बाध इति भावः । को वदेदित्यस्य प्रकृतवादिपरत्वे निर्धारणार्थकिंशब्दानुपपत्तिं