________________
सरः]
कालातिरेकवाधकं तन्निरासथ
619
तत्वमक्ताकलापः समुदितः संप्रतीते तु भेदे साधयं नैक्यहेतुः स हि तदितरवद्रोषितस्तद्वितिः ॥६६॥
सर्वार्थसिद्धिः । प्रश्नसंघटनाच्च । सर्वकार्यहेतुत्वनित्यत्वविभुत्वैः तदेक्यसाधनं निरस्यति-संप्रतीते त्विति । वस्त्वन्तर इव भेदकण्ठोक्ति व्यनक्ति-स हीति । 'ब्रह्मा दक्षादयः कालः' इत्यादिभिरिति शेषः । विष्णुमन्वादयः कालः इत्यत्र विष्णुशब्दोऽवतारपरः। तस्य तद्विभूतित्वं च तादृशरूपेण ॥६६॥
कालस्येश्वरैक्यशङ्कापरिहारः,
आनन्ददायिनी माहुः । संकर्षणस्यैव रुद्राभिमानित्वाच्च । अभिमानिद्वारा सामानाधिकरण्ये प्रश्नोपपत्तिः । कालः परमात्माभिन्नः सर्वकार्यहेतुत्वात् परमात्मवत् व्यतिरेकेण वटवच्च । नित्यत्वाद्विभुत्वाद्वेत्यादि परमात्माभेदसाधकान्यागमबाधितानीत्याह-सर्वकार्येति । नित्यत्वं विभुत्वं च जीवादौ व्यभिचारीति ध्येयम् । ब्रह्मादक्षादय इति-यद्यपि चेतनदेवताभिस्सह पाठत् कालो यमोऽत्रेति वक्तुं शक्यम् ; तथाऽपि कालशब्दाभिधेयस्य ततो भिन्नत्वं सिद्धम् । यमादीनां कालशब्दवाच्यत्वं च तदभिमानितया । तथा च तस्य भेदे तदभिमा(न्यस्य)नस्य सुतरां भेदस्सिध्यतीति भावः । नन्वत्रापि कालशब्दः परब्रह्मपर एवास्तु न च विभुत्वानुपपत्तिः; विष्णुमन्वादय इत्यत्र विष्णुवदुपपत्तेरित्यत्राह-विष्णुर्मन्वादय इति । तादृशरूपेणेति-उपेन्द्राभिधानतादृशविग्रहरूपेणेत्यर्थः ॥ ६६ ॥
कालस्येश्वरैक्यशङ्कानिरासः