________________
618
सव्याख्यसवार्थासद्धिसहिततत्वमुक्ताकलापे
[जडद्रव्य
तत्वमुक्ताकलापः इत्याप्तवयों हेतुस्सर्वस्य नित्यो विभुरपि च पर: किं परेणेति चेन्न । कालान्तर्यामितादेस्स खल
सर्वार्थसिद्धिः सर्वव्यवहारसिद्धिमभिप्रेत्याह-हेतुरिति । तदतिरिक्तकाल कल्पनस्य निरर्थकत्वमाह-किं परेणेति । रूपान्तरमित्यत्र क्लिष्टगतिरयुक्तेत्यभिप्रायेण प्रतिवक्ति-नेति । कालेऽपि सामानाधिकरण्यं तत्तत्पदार्थान्तरेष्विव निर्वहतीत्याह-कालान्तर्यामितादेरिति । आदिशब्देन कालाभिमानिरूपसंग्रहः । सन्ति हि जीवमनोऽहङ्काराभिमाननियतानुबन्धानि संकर्षणादिरूपाणि! तद्वदिहापि स्यात् । 'को भवानुग्ररूपः' इति
आनन्ददायिनी किं परेणेति-परमात्मनः परेणातिरिक्तेन कालेनेत्यर्थः । क्लिष्टगतिरितिरूपान्तरमिति भेदकशब्दस्य कथञ्चिन्नयनमित्यर्थः । इदमुपलक्षणं अन्तरशब्दवैयर्थ्य च । नन्वभेदसाधकप्रमाणसत्त्वे क्लिष्टगतिरपि युक्तेत्यत्राह -कालेऽपीति । तत्राश्वत्थाद्यचेतनसामानाधिकरण्यस्यापि प्रतिपादनेन प्रकरणस्य विभूतिप्रतिपादनपरत्वेनाभेदप्रतिपादनपरत्वाभावादित्यर्थः । काले कालशरीरकत्वेन सामानाधिकरण्यमुक्ता कालाभिमानिदेवतात्वेनापि सामानाधिकरण्यमाह-आदिशब्देनेति । जीवादीनां संकर्षणप्रद्युम्नानिरुद्धादिरूपमभिमानि तद्वत्कालाभिमानि रूपान्तरमपि संभवतीत्यर्थः । वस्तुतः(केचित्तु)संकर्षणस्यैव कालाभिमानित्वमिति (वदन्ति)भावः। संकर्षणस्यैव कालाभिमानित्वे हेतुमाह-को भवानिति । उग्ररूपः-तीक्ष्णरूप इत्यन्ये । केचित्तु उग्ररूपः-क्रुद्धरूप इत्यर्थ,