SearchBrowseAboutContactDonate
Page Preview
Page 687
Loading...
Download File
Download File
Page Text
________________ सरः ] कालस्येश्वरातिरेकबाधकम् 617 तत्वमुक्ताकलापः कालोऽस्मीति स्वगीता कथयति भगवान् काल सर्वार्थसिद्धिः अन्यथा शास्त्रैः स्वग्रन्थान्तरैः संप्रदायैश्च विरोधस्स्यादिति ॥ ६५ आकाशाद्यतिरिक्तकालसिद्धः एवमपि कालस्य परमात्मव्यतिरिक्तत्वं न सिध्यति ; रूपान्तरमिति स्वरूपविवक्षोपपत्तेः तत्स्वरूपैक्ये प्रमाणसद्भावाच्च इत्यभिप्रायेणाह — काल इति । स्वशब्दोऽत्र परमात्मविषयः । गयिते हि 'कालोऽस्मि लोकक्षयकृत्प्रवृद्ध:' इत्यादि ! तद्वत् 'अनादिर्भगवान् कालः' इति पराशरेणोक्तमपि ख्यापयतिकथयतीति । आप्तवर्यत्वमस्य ' देवतापारमार्थ्यं च' इत्यादिभिस्सिद्धम् । नित्यविभुना परमात्मनैव त्रैकालिकसार्वत्रिकआनन्ददायिनी पृथगस्तित्वनास्तित्वादयो न वक्तव्या इति भाष्येण काला सत्त्वप्रतीतेरिति भावः । भाष्यस्य तात्पर्यवर्णनहेतुमाह - अन्यथेति ॥ ६५ ॥ आकाशाद्यतिरिक्तकालासिद्धिः आक्षेपसंगतिमाह — एवमपीति । रूपान्तरमिति यद्यप्यन्तरशब्दो भेदोऽस्ति ; विष्णो रूपमित्यादिषष्ठीवन्नेतुं शक्यमिति भावः । एवं नयने हेतुमाह - तत्स्वरूपैक्ये इति । कालोऽस्मीत्यादिप्रमाणसद्भावादिति भावः । ' अनादिर्भगवान्' इत्यत्र भगवान् —परं ब्रह्म । सिद्धमिति--विष्णुपुराण एवेत्यर्थः । ननु परमात्मव्यतिरिक्तकालाभावे क्षणलवपरत्वादिव्यवहारः कथम् ? इत्यत्राह -- नित्यविनेति ।
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy