________________
592
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[जडद्रव्य
सर्वार्थसिद्धिः कृष्येरन् एकदेशस्थिते च वर्षति बलाहके *मुहूर्तमात्रान्मही शतयोजना सिच्येत । अतिकुशलानामपि धन्विनां दक्षिणोत्तरदेशावस्थित *स्थिरलक्ष्यवेधो न स्यात् । *शरविहङ्गादीनामपि धरणीसममेव वायुना नोदनान्नोक्तप्रसङ्ग इति चेन्न तथाविधस्य
आनन्ददायिनी भावः । ननु शरविह(शरतर)ङ्गादि क्षिप्तं तीव्रतरेण वायुना नोदनात् यत्र स्वगन्तव्यदेशः तत्र गच्छतीति नैते दोषा इति शङ्कतेशरविहङ्गादीनामिति । तथाविधस्येति-तथाच पूर्वोक्तदोषास्स्युरिति भावः ।
भावप्रकाशः इति सिद्धान्तशेखरे श्रीपत्युक्तं दूषणं विशदयति-* एकदेशस्थिते चेत्यादि । * मुहूर्तमात्रात् शतयोजनेत्यादियोजनशतानि भूमेः परिमाणं षोडश द्विगुणितानि ।
(पं. सि. १३-१८) इति द्विशतोत्तरत्रिसहस्रयोजनः परिधिरिति वराहमिहिरोक्तया त्रिसहस्रयोजनः परिधिरित्यपि अन्येषां पक्षम्स्यात् ; तत्पक्षानुसारेणाचार्यैरुक्तम् । * लक्ष्यवेधो न स्यादिति -- दैवज्ञविलासे
प्रतिदिनमधः पतन्तीं प्राहुजैनाः नभस्यनन्तेऽस्मिन् । इति अधःपतनं प्रस्तुत्य भ्रमणपक्षे पूर्वोक्तदूषणान्युपन्यस्य ;
यद्यवंगमा धात्री निश्चलपक्षण वियति खचरेण ।
संवृत्ता भवति तथा यदि मन्दं मन्दमुत्पतत्येषा ॥ इति उत्पतनपक्षे एतद्दषणमुक्तम् । एतावता ज्योतिषोक्तदूषणान्युपन्यस्तानि ; अथ आधुनिककल्पकानां तदुक्तदूषणोद्धारं शङ्कते* शरविहङ्गादीनामपीति । तत्र भुवो भ्रमणं किं वायुना किं स्वत इति विकल्प्य प्रथमपक्षे दूषणमाह-* तथाविधस्येति ।