________________
सरः]
भूभ्रमणपक्षदूषणम्
सर्वार्थसिद्धिः
च स्वदेशपश्चिमभाग एव तेषां निपातस्स्यात् 'उड्डीनाथ पक्षिणो न कुलायमासीदेयुः । प्रत्यङ्कुखं च गच्छतां दुःखेनापि न संनि
आनन्ददायिनी
क्षेपः परभागे पातप्रसङ्गश्चेत्यर्थः । उड्डीनाश्चेति — तीव्रतरं भ्रमणेन प्रतिक्षणं कुलायादिपुरो धावन्ने (नि) वानुधावता दूरस्थ एव स्यादित्यर्थः । प्रत्यङ्मुखं पततामिति –—–— यत्र पक्षी तत्र कुलायादेस्सन्निध्यसम्भवादिति भावः । प्राङ्मुखमिति—- उद्देश्यदेशस्य पूर्वन्यायेन दवीयस्त्वादिति
भावप्रकाशः
1 * निपातस्स्यादिति । अयमर्थः -
इषवोऽभिनभस्समुज्झिताः निप्रतन्तस्स्युरपांपतेर्दिशि । (धीवृ. तं मिथ्या ४२)
इत्यभिहितो लल्लाचार्येण । 2 * उड्डीनाश्चेति -
यदि च भ्रमति क्षमा तदा स्वकुलायं कथमाप्नुयुः खगाः ?
591
इति तत्पूर्वार्धेन तेनैवोक्तोऽयमर्थः ।
यद्येवं श्येनाद्याः न खात्पुनः स्वनिलयमुपेयुः । इति ' भ्रमति भ्रमस्थितेव' इत्यादिश्वोकोत्तरार्धेनोक्तो वराहमिहिराचायेणापि (पं. सि. १६-५) ।
मम्बरच विहगाः स्वनीड
मासादयन्ति न खलु भ्रमणे घरित्र्याः ।
इति श्रीपतिनापि (सिद्धान्तशेखरे ) ।
किञ्चाम्बुदा अपि न भूरिपयोमुचस्स्युः देशस्य पूर्वगमनेन चिराय हन्त |