________________
590
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[जडद्रव्य
सर्वार्थसिद्धिः मुश्चन्ती द्रुततरमधरोत्तरवृत्त्या भूभ्रमति 'इति हि तद्भान्तिपक्षः। *अत्रोत्क्षिप्ताश्शिलादयः स्वदेशे तदासन्ने वा कथं निपतेयुः? नित्यं
आनन्ददायिनी भूभ्रमणपक्षे दूषणमाह-तत्रोत्क्षिप्ता इति । यत्र स्थितेनोत्क्षेपः कृतः भ्रमणे सति तदन्यदेशस्यैव तदाकाशऋजुप्रदेशत्वात् तदन्यदेशे पतनं स्यात् । प्राग्देशपतनार्थं क्षिप्तस्य पाषाणादेः इषुयन्त्रक्षिप्तपाषाणादिवत्
भावप्रकाशः सिद्धान्तानुसार्यर्थ एव अनुलोमगतिनौँस्थ इत्यत्र विवक्षित इति श्रीपतेराशयः । आचार्यपादाश्च लल्लवराहमिहिराचार्योक्तदिशा भुवः भ्रमणपक्षे दूषणमभिधास्यन्तः तथैव दूषणमभिदधानस्य श्रीपतेः स्वस्य च तदुक्तदिशैव अनुलोमगतिनौस्थः इत्यत्र सिद्धान्तानुसार्यर्थोऽभिमत इत्याशय स्फुटतरमभिव्यञ्जयन्तीति ।
पूर्वाभिमुखे भ्रमे भ्रवः (धीवृद्धिदतन्त्रं मिथ्याज्ञाना. ४३) भ्रमति भ्रमस्थितेव क्षितिरित्यपरे वदन्ति नोड्डुगणः ।
(पञ्चसिद्धा १३-६) पूर्वाभिमुखं भ्रमति क्षोणी नास्ति भ्रमः खगाणाम् ॥
(गोलदीपिका २७) इत्यादिषूक्तं भभ्रमणप्रकारं निर्दिशति-* इति हि तद्धान्तिपक्ष इति । अत्र भुवः भ्रमिवत् पार्श्वभ्रमणमप्युपस्कृतम् । * शिलादय इतिउत्तरत्र शरविहङ्गादीनामपीत्यनुवादग्रन्थे शरस्यैव प्रथमग्रहणेन शरादय इति पाठस्स्यादिति प्रतिभाति : ज्योतिषग्रन्थेष्वपि शरस्यैव निर्देशाच्च ।