SearchBrowseAboutContactDonate
Page Preview
Page 663
Loading...
Download File
Download File
Page Text
________________ सरः] भूभ्रमणहेतुवायुनिरासः सर्वार्थसिद्धिः प्रबलमारुतस्यानुपलम्भनिरस्तत्वात् । सर्वेषां प्रत्यङ्कुखगतिप्रतिरोधप्रसङ्गाच्च । यो हि महापृथिवीं प्रभञ्जनः प्रसभमावर्तयति तं कथं लघीयांसो विहङ्गादयः प्रतिसरेयुः ? किन्तु पृथिव्याः पूर्वमेव प्राङ्मुखं दूरमपनीयेरन्; किंच ज्योतिर्गणभ्रमणहेतुमरुितः शास्त्राभ्यनुज्ञानात् प्रत्यक्षविरोधाभावाच्च संगृह्यते । भूभ्रमणहेतुस्त्वसौ 593 आनन्ददायिनी - तदङ्गीकारे बाधकमप्याह – सर्वेषामिति । आकाशसंचारिणामित्यर्थः । तदेवोपपादयति-यो हीति । किञ्च भूभ्रमणे कारणाभावमप्याहकिञ्चेति । शास्त्रदृष्टविरुद्धकल्पनेऽपि भुव एव तादृशभ्रमणसामर्थ्यं भावप्रकाशः भूवायुरावह इह प्रवहस्तदूर्ध्वस्स्यादुद्वहस्तदनु संवहसंज्ञकश्च । अन्यस्ततोऽपि सुवहः परिपूर्वकोऽस्मात् बाह्यः परावह इमे पवनाः प्रसिद्धाः ॥ - (गोलाध्या. भुवन. १) भूमेः बहिर्द्वादशयोजनानि भूवायुरत्राम्बुदविद्युदाद्यम् । ( गोलाध्या. भु. २) इति शास्त्रेणास्माभिर्भूमेर्बहिर्वायुविशेषा अङ्गीक्रियन्ते ; कल्पकेन तु भुवो भ्रमणं कल्पनेनैव बोधनीयम्; वायुविशेषस्य तु प्रत्यक्षेण कियद्दरमुपलब्धिर्वर्तते । ततस्तत्प्राबल्यं तूपलम्भेन न निश्चेतुं शक्यत इति 38 SARVARTHA
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy