________________
भूस्थैर्यपक्षे प्रामाणिकपरिगृहीतत्वम्
सर्वार्थसिद्धिः
1
विरोधः ! ' *कक्षीकृतञ्चायं पक्षः कार्तान्तिकैरपि । यथाऽऽहार्य -
भटः
सरः ]
#उदयास्तमयनिमित्तं नित्यप्रवहेण वायुना क्षिप्तः । लङ्कासमपश्चिमगो भपञ्जरस्सग्रहो भ्रमति || आनन्ददायिनी
581
इत्याह-कक्षीकृतश्चायमिति । तदेवाह – यथेति । उदयास्तमयनिमित्तं उदयास्तमयार्थम् । लङ्कायाः पश्चिमस्सग्रहः । भचक्रस्य हि लङ्काद्वीपस्थान् प्रति पश्चिमगतयोपलब्धिरिति सम्प्रदायः । भपञ्जरःभचक्रम् | नित्यप्रवण - सदागतिमता । वायुना क्षिप्तः परिभ्रमतीत्यर्थः ।
भावप्रकाशः
आकृष्टिशक्तिश्च मही तया यत् खस्थं गुरु स्वाभिमुखं स्वशक्तया । आकृष्यते तत्पततीव भाति समे समन्तात् क्व पतत्वियं खे ॥ इति भास्कराचार्यैः (शिरोमणिगोलाध्याये भुवनकोशे ६) भुवः आकर्षण - शक्तिकथनेन साक्षनिरक्षप्रदेशतारतम्येन पदार्थाकर्षणशक्तितारतम्यसंभवन पदार्थेषु गुरुत्वान्दोलनयोस्तारतम्यमुपपद्यत इति भावः । '* कार्तान्तिकैरपीति—अत्र कार्तान्तिकैरिति बहुवचनेन भुवः स्थिरत्वं बहूनां संमतमिति बोधितम् । आर्यभट्टस्य भूभ्रमणपक्ष एव संमत इत्युक्तिर्न युक्ता ; आर्यभट्टेनैव भचक्रभ्रमणपक्षस्यैव सिद्धान्तितत्वादित्यभिप्रायेण तदीयश्लोकमेवोदाहरति उदयास्तमयेत्यादिना । अत्र भूभ्रमणानङ्गीकारे उदयास्तमया (रे अहोरात्रा) नुपपत्तिः भूभ्रमणवादिभिरुच्यते । तदयुक्तम् ; प्रवहवायुना ग्रहाणां प्रत्यग्गत्यङ्गीकारेणोदया
2 *