________________
580
सव्याख्यसर्वार्थसिद्धिसहिंततत्वमुक्ताकलापे
[जडद्रव्य
सर्वार्थसिद्धिः तेषां 'हिरण्मयेन सविता रथेन' *इत्यादिश्रुत्यनुसारात् । अस्मिन् पक्षे सर्वलोकोपलम्भस्वारस्यमस्ति 2 *नच गणितादि
आनन्ददायिनी आर्यभटादिभिश्चेत्यर्थः । हिरण्म(ण्य)येनेति-देव आयातीत्यागमनादिकं भचक्रभ्रमणानुगुणमिति भावः । उपलम्भश्च भूम्याः स्थिरतया भचक्रस्य गतिमत्त्वेनेत्याह-अस्मिन्निति । ज्योतिश्शास्त्रे चायं पक्षः स्वीकृत
भावप्रकाशः 1*इत्यादिश्रुतीति- 'आकाशे पृथिवी प्रतिष्ठिता' इत्यादिश्रुतय आदिशब्दार्थः । * न च गणितादीति-आदिपदेन पदार्थेषु गुरुत्वस्य आन्दोलनस्य च भूभागभेदेन तारतम्यं गृह्यते । तत्र गणितविरोधो नास्तीति आधुनिकपाश्चात्यग्रन्थेषु व्यक्तम् ; तथाहि--
_ 'Science and Hypothesis,' by H. Poincare, Translated by W. Greestreet, (1905) P. 117.
The affirmation the earth turns round' has no meaning, since it cannot be verified by experiment, . . . . . . .or, in other words, these two propositions“ earth turns round,” and “it is more convenient to suppose that the earth turns round” have one and the same meaning.
There is nothing more in one than in the other. इति । भूभ्रंमतीति वचो नार्थवत् । कुतः इति चेत् ; तथात्वस्य दुर्निरूपत्वात् । ' भूर्भमति' 'भूभ्रंमतीति कल्पने लाघवम् ' इति द्वे अपि प्रतिज्ञे समानार्थे । एकस्या अर्थादपरस्या अर्थे हि नास्त्यतिशयः' इति च तदर्थः ॥