________________
582
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[जडद्रव्य
भावप्रकाशः स्तमयसंभवात् इति भूभ्रमणवादखण्डनाय उदयास्तमयनिमित्तमित्यादिश्श्लोकः प्रवृत्तः
भचक्रं ध्रुवयोर्बद्धं आक्षिप्तं प्रवहानिलैः । पर्येत्यजस्रं तन्नद्धा ग्रहकक्षा यथाक्रमम् ॥
(सू. सि. भूगोलाध्याये ७५) मध्ये समन्तादण्डस्य भूगोलो व्योम्नि तिष्ठति । बिभ्राणः परमां शक्तिं ब्रह्मणो धारणात्मिकाम् ॥
(सू. सि. भूगोलाध्याये ३२) इति ।।
जगदण्डखमध्यस्था महाभूतमयी क्षितिः । भावाय सर्वसत्वानां वृत्तगोळ इव स्थिता ॥
(वसिष्ठसिद्धान्ते) इति ॥
वृत्ता चक्रवदचला नभस्यपारे विनिर्मिता धात्रा । पञ्चमहाभूतमयी तन्मध्ये मेरुरमराणाम् ।।
(पौलिशसिद्धान्ते) इति च सूर्यवसिष्ठपोलिशसिद्धान्तवचनान्यवलम्ब्य
वृत्तभपञ्जरमध्ये कक्ष्यापरिवेष्टितः खमध्यगतः । मृज्जलशिखिवायुमयो भूगोलस्सर्वतो वृत्तः ।।
(आर्यभ. गोल. ६)
इति ॥
भानामधश्शनैश्चरसुरगुरुभौमार्कशुक्रबुधचन्द्राः । तेषामधश्च सूमिः मेथीभूता खमध्यस्था ॥
(आर्यभ-कालक्रि १५)