________________
578
सव्याख्यसवार्थासद्धिसहिततत्वमुक्ताकलापे [जडद्रव्य
mmmmm
तत्वमुक्ताकलापः ध्वान्तं तेजश्व नासीदिति मुनिभिरुपाख्यायि संवर्तवार्ताभावाभावौ निषेधुं तदुभयविधिवयाहतत्वादशक्यम् । अन्तर्यन्तुश्च तेजस्सहपठिततमो
सर्वार्थसिद्धिः आलोकाभावस्यागमवैघट्यमाह-ध्वान्तमिति । अर्थोपादानमेतत् ; शब्दस्तु 'नासीत्तमो ज्योतिरभून्न चान्यत्' इति । कथमस्य प्रकृतविरोधित्वम् ? इत्यत्राह-भावाभावाविति । न हि कस्यचिदेकदैकत्र भावाभावविधिश्शक्यते! तद्वदुभय
आनन्ददायिनी प्रसङ्गसंगतिमा(पूर्वसंगत्याऽऽ)ह-आलोकाभावस्येति । मूलस्यायमर्थः-मुनिभिः-पौराणिकैः ‘नासीत्तमो ज्योतिरभून्न चान्यत्' इत्यत्र तमस्तेजश्च नासीदिति। संवर्तवार्ता-प्रलयवचनम् । एकस्मिन् काले भावाभावविधिवन्निषेधोऽप्यशक्यः । शक्यमिति विभक्तिप्रतिरूपकमव्ययामिति न विशेष्यनिम्नतेति केचित् । अपरे तु--'निषेद्धं व्याहतत्वादशक्यम्' इति भिन्नं वाक्यम् । तत्किमित्यपेक्षायां भावाभावावित्यपरं वाक्यम् । अत एवं महाभाष्ये पस्पशायां श्वमांसादिभिरपि क्षुदुपहन्तुं शक्यमित्यत्र फैयटः--उपहन्तुं शक्यं इत्येकं वाक्यम् । तत्किमित्यपेक्षायां क्षुदित्यपरम् ; तथा च सामान्ये नपुंसकत्वमेकवचनत्वं चेति वदन्ति । वस्तुतस्तु (अन्येतु-)-भावाभावाविति तुमुन्नन्तकर्म । कृदन्तत्वेऽप्यव्ययत्वान्न षष्ठी । तथा च तुमुन्नन्तार्थ एव प्रधानमिति तत्रैव विधेयाशक्यत्वान्वये भावाभावनिषेधनमशक्यमिति(वाक्यार्थः) पर्यवस्यति । तुमुनोऽव्ययत्वेन