________________
सरः
आलोकाभावे नेल्यभ्रमनियामकादृष्टकल्पनानिरासः
571
तत्वमुक्ताकलापः साम्यात् नात्रादृष्टं नियन्तृ प्रतिनियतगुणारोपक्लप्तेर्गुरुत्वात् ॥ ६ ॥
सर्वार्थसिद्धिः प्रसङ्गिनोऽनुसरणायोगात् । यथा च रजौ साध्यासः तथा कदाचिदम्बुधाराद्यध्यासोऽपि किं न भवति ? सत्यां च सामग्रयां कार्यानुत्पत्तिरिति न लौकिकमेतन्न च यौक्तिकम् ; यच्चोक्तम्'अदृष्टादिकं चात्र नियामकमवसेयमिति' तहषयति–नाति । विचित्रादृष्टभेदविषमिते जगति सर्वजन्तुसाधारणस्य दुरुपशमतावन्मात्रभ्रमहेतोरदृष्टविशेषस्य कल्पनेतिगौरवं स्यादित्यभिप्रायेणाह–प्रतिनियतेति ॥ ६१॥
आनन्ददायिनी तदनुसारेण कल्प्यस्य निमित्तस्यातिप्रसक्तत्वे अरोपापादनासम्भवात्; अन्यथा सर्वत्र प्रमेयत्वस्यैब निमित्तत्वकल्पनापत्त्या अवान्तरदोषादिकल्पनावैयादिति भावः । तदेवोपपादयति-~-यथा चेति । सादृश्यस्योभयारोपसाधारणत्वादिति भावः । किञ्चारोपसामग्रयां सत्यामप्यारोपाभावः किं दृष्टः ? उत कल्प्यः ? इति विकल्प्य आद्यं दूषयति--सत्यां चेति । द्वितीयं दूषयति–नच यौक्तिकमिति । व्याप्तयभावादिति भावः । ननु सत्यां सामग्रयां कार्यनियम इति ; सत्यम् ; तत्रादृष्टविरहात्तदारोपो नेत्याशङ्कते- यच्चोक्तमिति । विचित्रेति-सर्वेषामेकरूपादृष्टसत्त्वे मानाभावात् (दिति भावः।) अन्यत्र सर्वत्र तत एव कार्यसम्भवे दृष्टकारणविलोपप्रसङ्गश्चेति (भाव) द्रष्टव्यम् ॥ ६१ ॥