SearchBrowseAboutContactDonate
Page Preview
Page 644
Loading...
Download File
Download File
Page Text
________________ 574 सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे [जडद्रव्य तत्वमुक्ताकलापः नालोकाभावमात्रं तिमिरं अविरतं नीलामत्येव दृष्टेः नैल्यं त्वारोपितं चेत् कथमिव न भवेत् कापि कस्यापि बाधः। ___सर्वार्थासद्धिः ये त्याहुः-आलोकाभाव एवालोकविरोधित्वलक्षणसमानधर्मस्मारितनैल्योपरत्तो नलिं तम इति गृह्यते । नजुपश्लेषरहितशब्दवाच्यत्वं तु प्रलयवादिशब्दन्यायेन स्यादिति ; तान् प्रतिवक्तिनालोकेति । अबाधितं नीलोपलम्भं हेतुमाह-अविरतमिति । आरोपितं नीलरूपत्वं नाभावत्वविरोधीत्यभिप्रायेणाशङ्कतेनैल्यं त्विति । आरोपस्य कालभेदेन पुरुषभेदेन वा बाधव्याप्तिमभिप्रेत्याह-कथमिवेति । अविरतमिति सूचितमेतेन व्यञ्जितम् । ननु तमो न नीलं असत्यालोके चक्षुषा प्रतीयमानत्वात् इति बाध इति चेन्न; दृष्टन्तासिद्धेः । आलोकाभाव आनन्ददायिनी आक्षेपसङ्गत्या न्यायमतमनूद्य दूषयतीत्याह-ये त्वाहुरिति । अलोकवैधर्म्यलक्षणधर्मस्मारितमित्यर्थः । केचित्तु-(यद्वा)आलोकशब्दः आलेकिवपर इत्याहुः । नन्वभावत्वे न पश्लिष्टपदबोध्यत्वं न स्यादित्यत्राहन पश्लेषेति । प्रलयस्सर्वकार्य(वि)नाशो ह्यभावरूपः । अविरतपदतात्पर्यमाह-अबाधितेति । बाधितत्वे कदाचिन्नीलान्यत्वेनापि प्रती(तेः)त्य अविरतत्वायोगादिति भावः । तथाचायं प्रयोगः-~-न तम आलोकाभावः अबाधितनीलबुद्धिविषयत्वात् सम्मतवदिति । प्रत्यक्षबाधविरहेऽपि यौक्तिकबाधेन हेत्वसिद्धिमाशङ्कते-नन्विति । व्याप्यत्वासिद्धिमाह-दृष्टान्तति ।
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy