________________
सरः] तस्यश्रौतेद्रव्यत्वप्राकृतत्वे परिशेषेणातिरेकः तस्याविद्यानिदर्शनत्वनिरासः 573
सर्वार्थसिद्धिः त्वप्राकृतत्वसिद्धौ रूपबत्त्वेन वायुपर्यन्तव्यपोहः । कृष्णरूपत्वाच्च वह्निजलव्यावृत्तिस्सिध्येत् । 'यत्कृष्णं तदन्नस्य' इति श्रुत्यनुसाराच्च । तदिदं तमः परब्रह्माच्छादकाविद्यानिदर्शनतया विषयावारकं कैश्चिदुक्तम् ; तदसत्;
तमोव्यवहितालोकस्थितनानार्थदर्शनात् । दृग्गतेविरुद्धस्य दृश्यच्छादकता कथम् ? ॥ अतो मादिदृष्टीनां दृश्यसंबन्धमात्रतः । दर्शनप्रतिघातित्वं स्वभावात्तमसि स्थितम् ॥
आनन्ददायिनी वोऽस्तु! कथं तस्य पार्थिवत्वमित्यत्राह-रूपवत्त्वेनेत्यादिना । वह्निजलव्यावृत्तत्वेऽपि पार्थिवत्वे किं प्रमाणमित्यत्राह—यत्कृष्णमिति । प्रमाणज्ञानं स्वप्रागभावव्यतिरिक्तस्वविषयावरणस्वनिवर्त्यस्वदेशगतवस्तु(वस्त्वन्तर)पूर्वकम् अप्रकाशितार्थप्रकाशकत्वात् अन्धकारे प्रथमोत्पन्नप्रदीपप्रभावत् इत्यनुमानेन अज्ञानसाधनं दूषयितुमनुभाषते-तदिदमिति । हेतुमाह-तमोव्यवहितेति ननु व्यवधायकस्य कथं नेन्द्रिय(दृष्टि)वृत्तिप्रतिबन्धकत्वमित्यत्राह-दृग्गतेराविरुद्धस्येति । आच्छादकत्वे दृग्गतिविघातप्रसङ्ग इति भावः । ननु मनुष्यादिदृग्गतिप्रति(गतिदि)घातकत्वाभावे कथमन्धकारे दृग्गतवस्तुग्रहाभाव इत्यत्राह-अत इति । दृशो दृश्यसम्बन्धेऽपि चाक्षुषधीप्रतिबन्धकत्वस्ये(त्वं तस्ये)त्यर्थः । वस्तुतस्तमोऽतिरिक्तचाक्षुषप्रत्यक्षे आलोकस्य सहकारित्वात् तदभावान्न तत्प्र. त्य(न तत्र प्रत्यक्षमि(क्षत्वमि)ति भावः ॥ ६० ॥
तमसः पार्थिवत्वम्