SearchBrowseAboutContactDonate
Page Preview
Page 642
Loading...
Download File
Download File
Page Text
________________ सव्याख्यसवार्थसिद्धिसहिततत्वमुक्ताकलापे सर्वार्थसिद्धिः अद्रव्यत्वादिपक्षाणामत्रासंभवसिद्धये । आद्यमेव तमो ध्वान्तमिति केचिदुपाचरन् ॥ किञ्च तेजस इव तमसोऽपि शरीरत्वाम्नानादालोकमध्ये तमस्स्सृष्टिवचनादेकस्मिन् काले तमस्तेजः प्रलयपाठाच्चास्य द्रव्य 572 [ जडद्रव्य आनन्ददायिनी नीलभानरूपस्मृतिप्रभोष इति प्राभाकराः । द्रव्यान्तरमिति कौमारिलाः । प्रधानतत्वमेव तम इति तत्वविदः' इत्युपक्रम्य प्राथमिकमतद्वयमथनपूर्वकम् ; 6 अत्र तत्वविदः प्राहुः स्थूलसूक्ष्मात्मना स्थिता | दैवी गुणमयी माया बाह्यन्तरतमो (मयी ) मता || इत्युक्तम् ; तत्कथं पार्थिवत्वं भवद्भिरुच्यते इत्यत्राह - अद्रव्यत्वादिपक्षाणामिति । आदिशब्दे नालो का भाव (पक्ष) परिग्रहः । अद्रव्यत्वादिनिरासाय प्राकृतत्वात् प्रकृतित्वोक्तिरित्यर्थः । तत्र हेतुमाह — किंच तेजस इति । ' यस्य तमश्शरीरम्' इति शरीरत्वोक्तेः 'तमस्ससर्ज दिवसे ' इत्यादिना भारतादौ आलोकदशायामेव तमस्सृष्टे श्रवणात् तेजसा सह तमसोऽपि प्रलयवचनात्त (चने त ) दभावत्वाभावावगमाच्च द्रव्यत्वं प्राकृतत्वं च सिद्धमित्यर्थः । ननु ' नासदासीनो सदासीत्तदानीम् ' तम आसीत्तमसा गूढमग्रे प्रकेतम् ' ' यदा तमस्तन्न दिवा न रात्रिः ' परे देवे' आसीदिदं तमोभूतम्' इति श्रुतिस्मृतिवचनानि प्रकृतेस्तमस्त्वं वदन्तीति चेत्; (न) प्रकृतेः रूपवत्त्वाभावेन अस्मदादिचाक्षुषतमस्त्वा - संभवात्तस्याः प्रकृतेरतीन्द्रियत्वोक्तेः (तेश्व) तत्र तमश्शब्द उपचाराच्छक्तयन्तराद्वेति दृश्यमानतमसः प्राकृतत्वमेवेति भावः । ननु तमसो द्रव्यत्वे तत्वान्तरत्वापत्तिः; क्लृप्तेष्वन्तर्भावे महदादिषु वा (दिष्वेवा) न्तर्भा " तमः
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy