________________
सरः] तच्चाक्षुषवैजात्यं तत्सहकारि तथास्वभावः आलोकमध्येतदग्रहोपपत्तिभेदाः 571
तत्वमुक्ताकलापः दिवाभीतदृष्टयादिनीतेः ॥ ६ ॥
सर्वार्थसिद्धिः न्धतमसेऽपि पदार्थान् दर्शयति । तथेहापि स्यात् । तत्र सहकार्यन्तरप्रभावादिति चेत् । अत्राप्यालोकाभावस्य सहकारिणः प्रभावादित्यङ्गीकुरुष्व । यथा च किंचित् बहलालोकग्राह्यं किंचित् मन्दालोकेनापि ; तथा किंचिदालोकग्राह्यं किंचिन्न तथेति यथादर्शनं नियमः ; दृक्स्वभावाच्च । यथा दिवाभीतादिदृष्टेरालोकनरपेक्ष्यं तथा दृश्यस्वभावादिहापीति किं नेष्यते ? अस्त्वेवम् । तथाऽप्यालोकमध्ये किं नोपलभ्यते ? इति चेत् ; आलोकनाश्यत्वादिति केचित् । उत्सारितत्वादित्यन्ये । मध्यन्दिनोल्काप्रकाशादिवदभिभवादित्यपरे ।
आनन्ददायिनी त्वेन आलोकाभावस्यासहकारित्वं तथाऽपि वाच्यम् ; तथा च लाघवानुरोधात् तमोग्रहे सह(तत्सह)कारि भवत्वित्यर्थः । ननु विषयव्यञ्जकालो(ञ्जकस्यालो)कस्यामावे कथं चक्षुषा ग्रहः ? तत्र तस्य सहकारित्वादित्यत आह-यथेति । आलोकस्य सहकारित्वेऽपि विषयभेदेन वैषम्यदर्शनेन नैकरूप्यं सर्वत्रेति भावः । ननु तथाऽपि सर्वत्र चाक्षुषज्ञाने आलोकमात्रस्य न व्यभिचार इत्यत्राह-हस्वभावादिति । अस्त्वेवमिति --- तम(सा)सो विरोधाभावेन सत्त्वाविरोधादित्यर्थः । आलोकेति-यथा दीपो वातविनाश्यः तथा अन्धकार अलोकनाश्य इत्यर्थः । अभिभवादिति-स्वावच्छेदेनालोकस्तमोज्ञानप्रतिबन्धकइत्यर्थः । ननु तत्वरत्नकरो 'आलोकाभावस्तम इति काश्यपीयाः ।